SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४६४ न्यायकोशः। गुणे । अपार्थकस्य गुणे । अप्राप्तकालस्य गुणे । न्यूनस्य गुणे । अधिकस्य गुणे । पुनरुक्तस्य गुणे। अननुभाषणस्याभावे । अज्ञानस्याभावे । अप्रतिभाया अभावे । विक्षेपस्याभावे । मतानुज्ञाया गुणे । पर्यनुयोज्योपेक्षणस्याभावे । निरनुयोज्यानुयोगस्य गुणे। अपसिद्धान्तस्याभावे। हेत्वाभासानां द्रव्यादिषु अन्तर्भावः इति (दिन० १ पृ० २०-२२ ) ( नील० पृ० ४५-४६)। सामान्यादयः पदार्था अलीका एव इति विज्ञानवादिनो बौद्धा आहुः ( राम० १)। दर्शनभेदेन मतभेदेन च पदार्था नानाविधाः। तथाहि विषयतातत्त्वादिवत् प्रतियोगित्वाधिकरणत्वतत्त्वसंबन्धत्वादयोप्यतिरिक्ता एव पदार्थाः इत्येकदेशिन आहुः (दीधि० २ सिद्धा० ल० पृ० ४१)। चिदचिदात्मकौ द्वौ पदार्थों इति मायावादिनो वेदान्तिन आहुः। चिदचिदीश्वरभेदेन त्रयः पदार्था इति रामानुजीयाः । स्वतन्त्रपरतत्रभेदेन द्वौ पदार्थौ इति माध्वाः। पतिपशुपाशभेदेन त्रयः पदार्थाः इति शैवा नाकुलीशाश्चाहुः । द्रव्यम् गुणः कर्म सामान्यम् विशेषः समवायः एते षट पदार्था इति कणादप्रधाना वैशेषिका आहुः । अत्र भाष्यम् प्रमेयाः पदार्थाः इति (प्रशस्त० पृ० २६)। एते भावपदार्थाः। नअर्थानुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षिताः इति ( सर्व० पृ० २१४ औलू० )। तथा च सूत्रम् धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधयंवैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् ( वै० १।११४ ) इति । अभावस्तु कारणाभावात्कार्याभावः ( वै० १।२।१ ) ( ९।१।११०) इत्यादिसूत्रज्ञापितः इति बोध्यम् (त० व०)(वै० वि०१।१।४)। अत्र न्यायलीलावतीकाराः । अभावश्च वक्तव्यः निःश्रेयसोपयोगित्वाद्भावप्रपञ्चवत् । कारणाभावेन कार्याभावस्य सर्वसिद्धत्वादुपयोगित्वसिद्धेः इत्याहुः । न्यायाचार्यास्तु द्रव्यकिरणावल्याम् एते च पदार्थाः षड्भावाः प्रधानतयोद्दिष्टाः । अभावस्तु स्वरूपवानपि नोद्दिष्टः । प्रतियोगिनिरूपणाधीननिरूपणत्वात् न तु तुच्छवत् इत्यभावः सप्तमः पदार्थः इत्यङ्गीचक्रुः (वै० वि० १२११४)। प्रमाणम् प्रमेयम् संशयः प्रयोजनम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy