________________
४६२
न्यायकोशः। पदं च । तृतीयं पङ्कजादिपदम् । चतुर्थमुद्भिदादिपदम् इति (तर्का०४ ) (मु० ४ पृ० १८९) (त० प्र० ख० ४ पृ० ३०)। यल्लक्षणावृत्त्या यमर्थमुपस्थापयति तत्तस्मिन्नर्थे गौणम् लाक्षणिकम् इति चोच्यते । यथा गङ्गायां घोष इत्यत्र लक्षणावृत्त्या तीरोपस्थापकं गङ्गापदम् (त. कौ० ४ ) । शास्त्रान्तरे चत्वारि पदजातानि । नामाख्याते चोपसर्गनिपाताश्च ( निरुक्त० ) (वै० सा० द० पृ० ३१ ) । कर्मप्रवचनीयं पञ्चमम् इति हेलाराज आह । अत्र हरिकारिका द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ इति ( प्रकीर्णके )। कर्मप्रवचनीयेन वै पञ्चमेन सह पदस्य पञ्चविधत्वम् इति हेलाराजो व्याख्यातवान् । संबन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनवदुपसर्गेष्वेवान्तर्भवन्ति कर्मप्रवचनीयाः इत्यभिसंधाय पदचातुर्विध्यं भाष्यकारेणोक्तम् । वाचकं लक्षक व्यञ्जकं चेति त्रिविधं पदम् इत्यालंकारिका आहुः । २ श्लोकस्य चतुर्थो भागः। ३ व्यवसायः। ४ स्थानम् । ५ त्राणम् । ६ चिह्नम् इति
काव्यज्ञा आहुः। पदार्थः-पदाभिधेयः ( त० दी० ) ( त० को०)। स च जात्याकृति
व्यक्तयः पदार्थः ( गौ० २।२।६८ ) । यथा घटमानयेत्यादौ घटपदाभिधेयः घटत्वात्मकजातिकम्बुग्रीवादिरूपाकृतिविशिष्टो व्यक्तिविशेषो घटपदार्थः । पदार्थत्वं च [क] पदशक्तिः ( ग० व्यु० का० १ )। [ख] वृत्त्या पदोपस्थाप्यत्वम् । [ग] पदतात्पर्यविषयत्वम् । [५] अभिधेयत्वम् (वाक्य० ) (त. दी० ) । अत्रेदं बोध्यम् । गवादिपदानामियं गतिः। गुणकर्मादिवाचकपदानां तु जातिव्यक्ती एवार्थः इति ( वै० उ० ७।२।२० )। आकाशादिपदस्य जात्यवाचकत्वेपि च न क्षतिः । जातिपदं वा धर्मपरम् (गौ० वृ० २।२।६८ ) । अत्र च जात्याकृतिव्यक्तिषु तिसृषु एकैव शक्तिरिति बोधनार्थ पदार्थः इत्येकवचनम् इति सांप्रदायिकाः । नव्यास्तु जातिव्यक्तयोरेव ( जातिविशिष्टव्यक्तौ ) एकशक्तिप्राप्त्यर्थं सौत्रमेकवचनम् । आकृतिरूपं तु संस्थान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org