________________
न्यायकोशः। पतित्वम्-निरतिशयक्रियाशक्तिमत्त्वरूपेणैश्वर्येण नित्यसंबन्धित्वम् । पदम्-१ [क] ते विभक्त्यन्ताः पदम् (गौ० २।२।६० )। यथा
दर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति । विभक्तिर्द्वयी । नामिकी आख्यातिकी च। ब्राह्मणः पचति इत्युदाहरणम् । उपसर्गनिपातास्तर्हि न पदसंज्ञाः । लक्षणान्तरं वाच्यमिति । शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपः तयोः पदसंज्ञार्थमिति । पदेनार्थसंप्रत्यय इति प्रयोजमम् । नामपदं चाधिकृत्य परीक्षा गौरिति पदं खल्विदमुदाहरणम् (वात्स्या० २।२।६० ) ( त० कौ० )। पदत्वं च वृत्तिमत्त्वम् (गौ० वृ० २।२।६० )। संकेतवद्वर्णत्वम् (वै० उ० २।२।२१ )। पदानां साधुत्वं च व्याकरणव्यङ्गयोर्थविशिष्टशब्दनिष्ठः पुण्यजनकतावच्छेदको जातिविशेषः ( ल० म०)। पदज्ञानं च शाब्दबोधे कारणम् । सूत्रे विभक्त्यन्तत्वं च शाब्दबोधौपयिकविभक्तिप्रकृतित्वम् (ग० अव० हेतु० )। [ख] वर्णसमूहः। समूहश्चात्रैकज्ञानविषयभाव एव । अत्रोच्यते । वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः इति ( सा० द० परि० २ श्लो० २)। एवं तत्र वर्णानां क्रमवतामाशुतरविनाशित्वेनैकदानेकवर्णानुभवासंभवात् पूर्वपूर्ववर्णाननुभूयान्त्यवर्णश्रवणकाले पूर्ववर्णानुभवजनितसंस्कारसहकृतेनात्यवर्णसंबद्धेन पदव्युत्पादनसमयग्रहणानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीतिर्जन्यते । सहकारिसामर्थ्यात्प्रत्यभिज्ञावत् । प्रत्यभिज्ञाप्रत्यक्षे हि अतीतापि पूर्वावस्था फुरत्येव इति (त० भा० प्रमा० ४ पृ० १८-१९)। [ग] शक्तम् ( त० सं० ४ ) (मु० ४ पृ० १७९)। [घ] अर्थबोधकम् । [3] सुप्तिङन्तं पदम् इति शाब्दिका वदन्ति । [च] वाक्यैकदेशः पदम् इति केचिदाहुः । न्यायनये पदं द्विविधम् । मुख्यम् गौणं च । यच्छक्तिवृत्त्या यमर्थमुपस्थापयति तत्तस्मिन्नर्थे मुख्यम् । यथा गोघटादिव्यक्त्युपस्थापकं मोघटादिपदम् (त० को०)।
मुख्यमपि चतुर्विधम् । यौगिकम् रूढम् योगरूढम् यौगिकरूढं चेति । ... तत्राद्यं पाचकादिपदम् । द्वितीयं ब्राह्मणवाचकं विप्रपदम् गोमण्डपादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org