________________
४६०
न्यायकोशः ।
कुर्वन्ति । २ वेदोज्ज्वला बुद्धिः । यथा पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः । ( भा० वा० ) इत्यादी । ३ आगमजन्यं ज्ञानम् ( गी० भा० टी० ) । यथा विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ( गीता० ५।१८ ) इत्यादौ । ४ सर्वविद्याधिकत्वं यत्पाण्डित्यं तदुदाहृतम् इति साहित्यशास्त्रज्ञा आहु: ( प्रतापरुद्रे ) । पतञ्जलिः – योगसूत्रकारक ऋषिविशेषः । पाणिनिसूत्रव्याख्यानरूपमहाभाष्यकारः शेषावतारत्वेन प्रसिद्धो मुनिविशेषः । अत्र पतन्नञ्जलिर्नमस्यतया यस्मिन् इति पतञ्जलिरिति व्युत्पत्तिर्द्रष्टव्या ( तत्त्वसु० ) । अथवा पतन्नञ्जलित इति पतञ्जलिः इत्यपि व्युत्पत्तिः । अनैतिह्यम् गोनर्ददेशे नद्यास्तीरे तपस्यतः कस्यचिदृषेरञ्जलितः पतितः इति ( शकंध्वा ० वार्तिक ० शेखरे ) । केचित्तु व्याकरणमहाभाष्यकारः पतञ्जलिर्योगसूत्रकाराद्भिन्न एवेति वदन्ति ।
पतनम् – १ [क] अधः संयोगावच्छिन्नस्पन्दः । अत्र पतनत्वं च गुरुत्वासमवायिकारणककर्मत्वम् ( दि० १ साधर्म्य ० पृ० ६२) ( ग० व्यु० का० २) [ख] स्पन्दत्वावान्तरजात्यवच्छिन्नः ( ग० २ अवयव ० ) । यथा वृक्षात्पर्ण पततीत्यादौ पतत्यर्थः । स च वृक्षविभागजनकव्यापारमारभ्य भूमिसंयोगजनक व्यापारपर्यन्तं सर्वाः क्रियाः पतनम् (वाक्य ०१ पृ० ९ ) । [ग] अधः संयोगावच्छिन्नो गुरुत्वप्रयोज्यपतनत्वजात्यवच्छिन्नो वा स्पन्दः ( श० प्र० श्लो० ६८ टी० पृ० ८० ) । २ धर्मज्ञास्तु पातित्यम् । तच्च [क] भोगावच्छिन्नं दुरितम् । यथा नरकं पतित इत्यादौ ( श० प्र० श्लो० ६५ टी० पृ० ७६ ) । [ख] द्विजातिकर्मभ्यो हानि: ( गौतम ० ) । यथा विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिप्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ( याज्ञ० अ०३ लो० २१९ ) इत्यादौ इत्याहुः ।
I
पतिः – शिवः । यथा पतिपशुपाशास्त्रयः पदार्था इत्यत्र ( सर्व० सं० पृ० १७५ शैव० ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org