________________
४५८
न्यायकोशः। - संदेशः इत्यादौ प्रकृत्यर्थपण्डितादिकर्तृकोच्चारणाधीनत्वं पञ्चम्यर्थः ।
तस्य च श्रवण उच्चारण अर्थविशेषज्ञान इत्यादिक्रियायामन्वयः । अत्राख्यातुः पण्डितादे आख्यातोपयोगे ( पा० सू० १।४।२९) इत्यनेनापादानता (ग० व्यु० का० ५ पृ० १०७ )। ३ वृत्तित्वम् । यथा कूपादन्धं वारयतीत्यादौ पञ्चम्यर्थः । एवम् अधर्माजुगुप्सत इत्यत्रापि पञ्चम्या वृत्तित्वमर्थः । धातोर्निन्दार्थः । तथा चात्र अधर्म निन्दति इत्यर्थो बोध्यते । एवम् उपाध्यायादन्तर्धत्ते शिष्य इत्यादौ पञ्चम्या वृत्तित्वमर्थः । धातोः स्वविषयकप्रत्यक्षविरोधिव्यापारोर्थः । पञ्चम्यर्थवृत्तित्वस्य धात्वर्थतावच्छेदकप्रत्यक्षेन्वयः । आख्यातस्य कृतिरर्थः । एवं च उपाध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ् शिष्यः इति बोधः ( का० व्या० पृ० १०)। अत्र अन्तर्षी येनादर्शनमिच्छति ( पा० सू० १।४।२८ ) इत्यनेनापादानता। ४ संयोगनाशाव्यवहितोत्तरक्षणवृत्तित्वम् संबन्धाधीनत्वं वा। यथा हिमवतो गङ्गा प्रभवतीत्यादौ पञ्चम्यर्थः । ५ कर्मत्वम् (विषयत्वम् ) । यथा कृष्णात्पराजयते शिशुपालः अध्ययनात्पराजयते बालः इत्यादौ पञ्चम्यर्थः । अधर्माद्विरमतीत्यादावपि पञ्चम्याः कर्मत्वमर्थः । धातोः करणमकरणं चार्थः । पञ्चम्यर्थकर्मत्वस्य करणे अकरणे चान्वयः । तथा च अधर्म पुनर्न करोति इत्यर्थः । एवम् धर्मात्प्रमाद्यतीत्यादौ पञ्चम्या विषयत्वम् धातोरनवधानम् आख्यातस्याश्रयत्वमर्थः । एवं च धर्मविषयकानवधानाश्रयः इति बोधः । शब्दशक्तिप्रकाशिकाकृतस्त्वत्राहुः । पापान्निवर्तते अधर्माद्विरमतीत्यादौ पञ्चम्या द्वेषोर्थः । तत्र प्रकृत्यर्थस्य विषयत्वेन तस्य च निवृत्तिरूपे धात्वर्थे जन्यत्वेनान्वयः। तेन पापगोचरद्वेषजन्यनिवृत्तिमान् इत्येवं बोधः इति ( श० प्र० श्लो० ६८ टी० पृ० ८०)। ६ यथेष्टविनियोगः । यथा विप्राद्धनमादत्त इत्यादौ पञ्चम्यर्थः ( का० व्या० पृ० ९-१०) (म० प्र० पृ०६) (ग० व्यु० का० ५ पृ० १०६) (श० प्र० श्लो० ६८ टी०)। अत्र धातोरपि यथेष्टविनियोगफलकस्वीकारोर्थः। पञ्चम्यर्थस्य विनियोगस्याव्यवहितोत्तरत्वसंबन्धेन धात्वर्थतावच्छेदके विनियोगेन्वयः । इत्थं च विप्रीययथेष्ठविनियोगाव्यवहितोत्तरधनवृत्तियथेष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org