________________
न्यायकोशः।
४५७ पततीत्यादौ भेदप्रतियोगितावच्छेदकत्वं विभागश्च पञ्चम्यर्थः । भेदे विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः। प्रतियोगितावच्छेदकत्वस्याश्रयतासंबन्धेन विभागस्य च जनकतासंबन्धेन पत्यर्थक्रियायामन्वयः । एवं च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकं यदृक्षनिष्ठविभागजनकं पतनं तदाश्रयः पर्णम् इत्याकारको बोधः ( ग० व्यु० कारक० ५ पृ० १०४ ) ( का० व्या० पृ० ९)। [ग] अवधित्वम् अवधितानिरूपकत्वं वा । यथा वृक्षाद्विभजते फलमित्यादौ पञ्चम्यर्थः । अत्रेदं बोध्यम् । अत्र नापादाने पञ्चमी किंतु अवधौ । वृक्षावधिकविभागाश्रयः फलम् इत्यवधित्वस्यैव बोधात् इति ( म० प्र० पृ० ६ )। अथवा अत्र विभागावधित्वमपादानत्वम् । अपाये विभागे ध्रुवमवधिभूतमपादानमिति सूत्रार्थः । तथा च वृक्षनिष्ठावधितानिरूपकविभागाश्रयः फलम् इति वाक्यार्थः ( का० व्या० पृ० ९ ) ( श० प्र० श्लो० ६८ टी० )। २ हेतुत्वम् । यथा घटो दण्डात् वह्निधूमात् इत्यादौ पञ्चम्यर्थः । अत्र हेतुत्वं द्विविधम् । कारकत्वम् ज्ञापकत्वं च । तत्राद्यं यथा घटो दण्डादित्यादौ । द्वितीयं यथा वह्निधूमादित्यादौ (म० प्र० पृ०६)। यथा वा व्याघ्राद्विभेतीत्यादौ जन्यत्वं (प्रयोज्यत्वं) पञ्चम्यर्थः। अत्र भीत्रार्थानां भयहेतुः ( पा० सू० १।४।२५ ) इत्यनेनापादानत्वम्। सूत्रार्थश्च भयार्थकधातुयोगे भयहेतुत्वेन संभावितमपादानम् इति । तेन यस्य व्याघ्राधीनं भयमप्रसिद्धम् अथ च व्याघ्रहेतुकत्वेन मरणादिकं संभावयति तत्पुरुषपरः व्याघ्रादयं बिभेति इति प्रयोगः संगच्छते (ग० व्यु ? का० ५ पृ० १०६) । अत्राह व्याघ्राद्विभेतीत्यादौ नापादानपश्चमी । किंतु हेतुत्वार्थिका पञ्चमी । तथाहि । धातोर्यथायथं भयं भयाभावश्चार्थः । पञ्चम्या हेतुत्वमर्थः । तच्च धात्वर्थे भये धात्वर्थतावच्छेदके च भयत्वेन्वेति। आश्रयत्वं व्यापारश्च यथायथमाख्यातार्थः । इत्थं च हेतुपञ्चम्यैवोपपत्ती भीत्रार्थानां भवहेतुः इति सूत्रं प्रपश्चार्थम् इति बोध्यम् ( का० व्या० पृ० ९-१० )। अत्रोदाह्रियन्ते । पण्डितात्पुराणं शृणोति उपाध्यायादधीते रामादधीत५८ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org