________________
न्यायकोशः ।
४५५
प्राभाकरमते विनापि धूमादिलिङ्गकवह पाद्यनुमितीच्छां तादृशानुमित्युत्पत्त्या तादृशानुमित्साविरहविशिष्टप्रत्यक्षादिसामग्र्यभावस्य कारणताधिक्यगौरवम् । पक्षता हेतुतामते तादृशानुमितेरिच्छानियततया तत्रेच्छाया लघीयस्या हेतुतयैवोपपत्तेः पक्षतापि तत्रेच्छैव इति ( ग० पक्ष ० पृ० ५८ ) । प्राभाकरास्तु विनाप्यनुमित्सां क्वचित्परामर्शानुमितिप्रवाहस्याविरललग्नस्यानुभाविकत्वात् कालभेदकल्पनायां च मानाभावाच पक्षता नानुमितिहेतुः । परार्थानुमाने तु सिद्धसाधनमर्थान्तरविधया दूषणमित्याहु: ( दीधि० पक्षता० २ पृ० १३२ - १३३ ) । पक्षधर्मता – [क] व्याप्यस्य ( हेतोः ) पक्षे वर्तमानत्वम् ( त० सं० २ ) ( भा० प० २ श्लो० ६९ ) । [ख] व्याप्यस्य पक्षसंबन्धः ( वाक्य ० २ पृ० १३ ) । [ग] पक्षताश्रयवृत्तित्वम् (त० कौ० २ पृ० ११ ) । यथा पर्वते धूमेन वहाँ साध्ये वह्निव्याप्यधूमवान् पर्वतः इत्यत्र धूमस्य पक्षधर्मता
पक्षसमः —— ( हेत्वाभासः ) । संदिग्धसाध्यकधर्म्यन्तरम् (ग० साधा० ) । पक्षासिद्ध: - ( हेत्वाभासः ) आश्रयासिद्धः ।
पक्षासिद्धिः – आश्रयासिद्धि: ( भा० प० २ श्लो० ७६-७७ ) । पक्षिणी - १ आगामिवर्तमानाहर्युक्ता रात्रिः ( अमर : १) । यथा यापयेत्पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ( मनु० ) इत्यादौ । अत्रोच्यते द्वावह्नावेकरात्रिश्च पक्षिणीत्यभिधीयते इति । तत्र पूर्वदिनरात्रौ तन्निमित्ते जाते पूर्वदिवसीयदिनमादायैव पक्षिणी इति व्यवहारः ( शुद्धि ० त ० ) । अत्र पक्ष तुल्यौ दिवस यस्याः सा इति विग्रहः । पक्षशब्दादिप्रत्यये ङीप् ( वाच० ) । २ विहगजातिस्त्री इति काव्यज्ञा आहुः । पक्षिलः – गौतम मुनिप्रणीतन्यायसूत्राणां भाष्यकर्ता वात्स्यायनो मुनिविशेषः ( त्रिका० ) ।
पङ्क्तिः --- १ सजातीयपदार्थानां स्थितिविशेषः । यथा एकपङ्कयुपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org