________________
ઉધઇ
न्यायकोशः। - सिषाधयिषाविरहविशिष्टत्वं सिद्धेर्विशेषणम् (दीधि० २ पृ० १२४ )। सिद्धेः सिषाधयिषाविरहेण वैशिष्ट्यं चैककालावच्छेदेनैकात्मवृत्तित्वम् ( दीधि० २ पृ० १३१) (म० प्र० २ पृ० २४ )। तदर्थश्च एकक्षणावच्छिन्नैकात्मसमवेतत्वम् इति (ग० पक्ष० पृ० ५१ )। समुदितार्थस्तु सिषाधयिषायाः साध्यानुमितीच्छारूपायाः समवायेन यः अभावः स्वरूप समवाय एतदुभयघटितसामानाधिकरण्यसंबन्धेन तद्विशिष्टायाः सिद्धेः समवायेनाभावः इति ( नील० २ पृ० १९) (ग० पक्ष० पृ० ५१)। अत्रायं विशेषः । यादृशयादृशसिषाधयिषासत्त्वे सिद्धिसत्त्वे यल्लिङ्गकानुमितिः तादृशतादृशसिषाधयिषाविरह विशिष्टसिद्ध्यभावस्तल्लिङ्गकानुमितौ पक्षता इति वक्तव्यम् ( दीधि० २ पृ० १२४ ) (मु० २ ) ( न्या० म० २ )। तेन सिद्धिपरामर्शसत्त्वे यत्किंचिज्ज्ञानं जायताम् इतीच्छायामपि नानुमित्यापत्तिः । वह्निव्याप्यधूमवान् पर्वतो वह्निमान् इति प्रत्यक्षसत्त्वे शाब्दसामग्र्यसत्त्वे च प्रत्यक्षातिरिक्तं ज्ञानं जायताम् इतीच्छायां तु भवत्येवानुमितिः। तल्लिङ्गकत्वप्रवेशेन च धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयाम् इतीच्छायामपि नानुमितिः इति (मु० २ पृ० १४८–१४९)। [ग] सिषाधयिषाविरोधिप्रमाणाभावः ( वै० उ० ९।२।१)। यथा पर्वते धूमेन वह्निसाधने पर्वतस्य पक्षत्वम् । [१] सार्वभौमस्तु सिषाधयिषाविरहविशिष्टस्वक्षणाव्यवहितोत्तरक्षणोत्पत्तिकानुमितिकभिन्ना या सिद्धिः सिषाधयिषाविरह
विशिष्टायास्तस्या अभावः पक्षता इत्याह ( दीधि० २ पृ० १२७ )। . [6] उपाध्यायाश्च सिषाधयिषाविरहविशिष्टस्य सिद्धिप्रत्यक्षसामग्र्योर
न्यतरस्याभावः पक्षतेत्याहुः । तेन सिद्धिकाले समानविषयकप्रत्यक्षसामग्रीकालेपि च नानुमित्यापत्तिः इत्युपाध्यायानामाशयः (दि० २ पृ० १५१ ) । अत्र प्रत्यक्षसामग्रीस्थाने अनुमानातिरिक्तसाधकमान इति दीधितिकृत्संमतपाठोस्ति (दीधि० २ पृ० १२९)। केचित्तु अनुमित्युदैश्यत्वं पक्षतेत्याहुः (न्या० बो० २ पृ० १७)। सिषाधयिषामात्रं पक्षतेत्यन्ये । अयमभिप्रायः । पक्षताया अनुमित्यहेतुत्वमिति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org