________________
न्यायकोशः। पृ० १६)। २ [क] सिषाधयिषाविरहसहकृतसाधकमानाभावः ( चि० २ पृ० ३४ ) । अत्रायमर्थः । सिषाधयिषा अनुमित्सा । साधकमानं सिद्धिः । साध्यनिश्चयः इति यावत् । एवं स सिद्धिरतुमितिविरोधिनी । अतः तत्र सिषाधयिषोत्तेजिका वाच्या । तत्सत्त्वेनुमित्युदयात् । तथा च अनुमित्साविरहविशिष्टसिद्धिर्विरोधिनी । तदभावः पक्षता इति पर्यवसितोर्थः (म० प्र० २ पृ० २३)। अत्रेदं बोध्यम् । श्रवणसंबद्धमात्रे घनगर्जिते इदं घनीयं गर्जितविशेषत्वात् इत्यनुमानस्य संशयं विनाप्यानुभाविकत्वात् संशयविघटकशाब्दसिद्ध्यनन्तरं अनुमितेविहितत्वेन तत्र संशयाभावात् साध्यनिश्चये प्रत्यक्षेपि वह्नौ सत्यप्यनुमित्सायां सत्यामनुमितेरुत्पत्तेश्च तन्निर्वाहाथ नव्यमतानुसारेणेयं पक्षतानुमितिप्रयोजिका इति ( न्या० म० २ पृ० १९) (म० प्र० २ पृ० २४ ) ( त० दी० २ पृ० २४ ) । अयमाशयः । गगनविशेष्यकमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन गगनं मेघवत् इत्याकारकगगनत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयताकानुमितिदर्शनात् प्राचीनलक्षणं विहाय नवीनैः अनुमित्युद्देश्यत्वं पक्षत्वम् इति स्थिरीकृतम् (न्या० बो० २ पृ० १६-१७ )। एवं सिषाधयिषामात्रं न पक्षता । विनापि सिषाधयिषां घनगर्जितेन मेघानुमानात् । अतः संशयस्य सिषाधयिषायाश्च पक्षतात्वं तिरस्कृत्य सिद्धान्तसिद्धेयं पक्षता स्वीकृतेति भावः। संशयविघटकशाब्दसिद्ध्यनन्तरमनुमितिश्च वेदान्तवाक्यैर्विहिता यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादिश्रुत्या श्रवणानन्तरं मननं अनुमितिरूपं विहितम्। तथा च तत्रात्मनस्तादृशवेदवाक्येन निश्चितत्वेन संशयाभावाव्यभिचारः स्यादिति ।[ख] सिषाधयिषाविरहविशिष्टसिद्ध्यभावः (न्या० म० २ पृ० १९) ( भा० ५० श्लो० . ७१)। अत्रेदं बोध्यम् । सिद्धिः पर्वतो वह्निमान् इति निश्चयः । तस्य सत्त्वे पर्वतो वह्निमान् इत्यनुमितेनुत्पत्तेः सिद्धिरनुमितौ प्रतिबन्धिका । सिद्ध्यभावोनुमितौ कारणमिति वक्तव्यम् । एवं सत्यपि पर्वतादौ पक्षे साध्यनिश्चये सत्यपि सत्यां च सिषाधयिषायां पर्वतो वह्निमान इत्यनुमित्युत्पत्तिदर्शनात्तत्र पक्षतासंपत्तये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org