________________
न्यायकोशः। पर्वतपक्षकवह्निसाध्यकस्थले पर्वतो वह्निमान्न वा इति । अत्र वह्निमान् इत्येकः पक्षः न वा इत्यपरः पक्षः इति ज्ञेयम् । २ पक्षतावान् (मु० २ पृ० १४६)। यथा संदिग्धसाध्यधर्मा धर्मी सिषाधयिषितसाध्यधर्मा धर्मी वा पक्षः ( चि० २ पृ० ३३ ) इत्यादौ पर्वते धूमेन वह्निसाधने पर्वतः पक्षः (त० सं० ) (त० भा० पृ० १४-१५)। पक्षता यस्मिन्नस्ति स पक्ष इत्यर्थः (वै० उ० ९।२।१ )। ३ व्यवहारज्ञास्तु प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः॥ इत्याहुः ( वीरमित्रो० अ० २ लेख्य पृ० ६९ तत्र बृहस्पतिः )। ४ [क] मौहूर्तिकास्तु शुक्लकृष्णप्रतिपदादिपञ्चदश्यन्तपञ्चदशतिथ्यात्मकः कालः इत्याहुः। [ख] द्वेधा विभक्तस्य चान्द्रमासस्यैको भागः पक्षः (पु० चि० पृ० ३१.)। ५ वैयाकरणास्तु समूहः । यथा केशपक्ष इत्यादौ इत्याहुः । अत्र केशात्परः समूहार्थे पक्षशब्दप्रयोगो ज्ञेयः। ६ काव्यज्ञास्तु खगानां पतत्रम् । ७ पार्श्वभागः ।
८ गृहम् । ९ विरोधः। १० सहायः। ११ बलम्। १२ मित्रम् । . १३ वलयः इत्याहुः। १४ देहार्धभागः इति भिषज आहुः ( वाच०)। ... १५ भाषा। भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् ( मिता० २।६)। पक्षता-१ [क] साध्यवत्त्वेन संदिह्यमानत्वम् । यत्र साध्यनिश्चयोस्ति
तत्रानुमितेरनुत्पत्तिः इति साध्यनिश्चयकालेनुमितिवारणाय साध्यसंशयरूपा पक्षता अनुमितेरङ्गम् इति प्राचीनमताभिप्रायेणेयं पक्षता इति बोध्यम् (न्या० म० २ पृ० १९) (म० प्र० २ पृ० २३ )। अत्र भाष्यम् नानुपलब्धे न निर्णीतेथे न्यायः प्रवर्तते अपि तु संदिग्धे इति ( वात्स्या० ) ( त० भा० पृ० १०)। [ख] संदिग्धसाध्यत्वेनोपात्तत्वम् । [ग] संदिग्धसाध्यधर्मत्वम् ( चि० २ पृ० ३३ ) ( त० सं० २) । अत्र संदिग्धं संदेहप्रकारीभूतं साध्यं यत्र इति विग्रहे संदेहप्रकारीभूतसाध्यवत्त्वमित्यर्थः । यथा धूमानुमाने पर्वतस्य पक्षत्वम् ( त० भा० पृ० १५)। इदं लक्षणत्रयम् अनुमितेः पूर्व साध्यसंदेहो नियमेन वर्तते इत्यभिप्रायेण प्राचीनैः कृतम् (न्या०बो० २
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org