________________
न्यायकोशः। हेतुवाक्यं निष्प्रतियोगिकमन्वयं बोधयितुमीष्टे । तस्मात् साध्यनिर्देशानन्तरं कुतः इत्याकाङ्कायां साधनताव्यञ्जकविभक्तिमल्लिङ्गवचनमेवोचितम् इति प्रतिज्ञानन्तरं हेतूपन्यासः । हेतावुक्ते कथमस्य गमकत्वम् इत्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायोदाहरणम् । उदाहरणानन्तरं भवतु व्याप्तिः । तथापि व्याप्तं किं पक्षे वर्तते न वा इत्याकाङ्कायां व्याप्तस्य पक्षधर्मत्वप्रदर्शनायोपनयः। उपनयानन्तरं निगमनम् । न च व्याप्तिपक्षधर्मतायाश्चतुर्भिरेवावयवैः पर्याप्तः किं तेन इति वाच्यम् । अबाधितासत्प्रतिपक्षत्वयोरलाभे चतुर्णामप्यपर्यवसानात् इति (चि० २ अव० पृ० ७७-८२ )। अथवा पर्वतो वह्निमान् इति प्रतिज्ञाते कुतः इत्याकाङ्क्षायां धूमात् इति प्रयोगः । ततः कथमस्य गमकत्वम् इत्याकाङ्कायां व्याप्तिपक्षधर्मताभ्याम् । तत्र कासौ व्याप्तिः इत्याकाङ्क्षायां यो यो धूमवान् स स वह्निमान् यथा महानसम् इति प्रयोगः । ततः व्याप्तस्य पक्षधर्मत्वमस्ति न वा इत्याकाङ्क्षायां वह्निव्याप्यधूमवांश्वायम् इति तथा चायम् इति वा प्रयोगः । ततः व्याप्तिपक्षधर्मतावानप्ययं हेतुर्बाधित एव सत्प्रतिपक्ष एव वा स्यात् इत्याकाङ्क्षायामबाधितत्वासत्प्रतिपक्षत्वबोधनाय तस्माद्वह्निमान् इति तस्मात्तथा इति वा निगमनप्रयोगः । न चानेनाप्यबाधितत्वादिबोधः कथं जन्यत इति वाच्यम् । साध्यपुनर्वचनस्यानुवादतया प्रयोजनजिज्ञासायां परिशेषाद्वाधादिविधूननमेव तत् इत्यवसीयते । तथैव व्युत्पत्तेः । तदाहुः उपसंहारस्यायं महिमा यद्विपरीतशङ्काविलोपनं नाम इति । अत्रेदं बोध्यम्। दृष्टान्तप्रयोगस्तु सामयिकः न नियतः इति (म० प्र० २ पृ० ३१-३२ )। ४ प्रमाणानामनुप्राहकस्तर्कः (भा०)। तदनुगृहीतप्रमाणगम्यो भगवान् विष्णुरपि न्यायशब्देन लक्षितलक्षणया प्रतिपाद्यते ( आनन्दगिरिः )। यथा न्यायप्रसूनाञ्जलिः न्यायकुसुमाञ्जलिः इत्यादौ ( वाच० )। ५ वेदार्थनिर्णयसाधनमधिकरणात्मकः पदार्थः । स च न्यायः पूर्वोत्तरवेदसंबन्धो जैमिनिवेदव्यासाभ्यां बहुप्रकारो दर्शितः। ६ लोकशास्त्रप्रसिद्धदृष्टान्तविशेषः । तत्र लोकप्रसिद्धो यथा अर्के चेन्मधु विन्देत ५७ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org