________________
૮
न्यायकोशः ।
1
नियमः संशयितेर्थे न्यायः प्रवर्तते इति ( वात्स्या० १|१|१ ) | नानुपलब्धे न निर्णीतेर्थे न्यायः प्रवर्तते अपि तु संदिग्धे इति ( त० भा० पृ० १० ) । अत्र गदाधर आह जल्पस्थले संशयस्यावश्यकत्वेपि वादस्थले न तथा इति संशयमन्तरेणापि अनुमित्साधीनानुमितिनिर्वाहाय न्यायप्रयोग संभवात् इति (ग० २ अवयव० पृ० २२ ) । तथा च संदिग्धेर्थे न्यायः प्रवर्तते इति नियमस्तु जल्पे एव न तु वादे इति भावः । [ खं ] समस्तरूपोपेतलिङ्गबोधकवाक्यजातं न्याय: ( कु० १ टी० हरिदास: ) । वाक्यजातं च प्रतिज्ञादिपञ्चकम् । समस्तरूपाणि च पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधितविषयत्वम् असत्प्रतिपक्षितत्वं चेति पञ्च ( म०प्र० २ पृ० ३१ ) । [ग] अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम् ( चि० २ अव० पृ० ७६ ) । [घ] क्रमिकप्रतिज्ञादिसमुदायः । यथा पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले पर्वतो वह्निमान् इत्यादिप्रतिज्ञादिघटितवाक्यपञ्चकं न्यायः । प्रतिज्ञादीनि पञ्च वाक्यानि तु प्रतिज्ञा हेतुः उदाहरणम् उपनयः निगमनम् इति । यथा ( १ ) पर्वतो वह्निमान् ( २ ) धूमात् ( ३ ) यो यो धूमवान् स स वह्निमान् ( ४ ) वह्निव्याप्यधूमवानयम् (५) तस्माद्वह्निमान् इति ( न्या० म० २ पृ० २३ ) । अत्र उदाहरणान्त एव प्रयोगः इति न वाच्यम् । तृतीयलिङ्गपरामर्शस्य व्याप्तपक्षधर्मतावगाहिनोवयवान्तरादलाभात् । तदनभ्युपगमेपि पक्षधर्म - ताया अलाभात् इति । मीमांसकानामुदाहरणान्तः प्रतिज्ञा हेतु उदाहरण एतत्रयात्मकः न्यायः । बौद्धानामुदाहरणोपनयद्वयावयवको न्यायः । अतिप्राचीन नैयायिकानां दशावयवको न्यायः । दशावयवाश्च प्रतिज्ञादि - पञ्चकम् संशयः जिज्ञासा शक्यप्राप्तिः प्रयोजनम् संशयव्युदासश्चति । अथ प्रतिज्ञादीनां पञ्चानामवयवानां क्रमोभिधीयते । कथायामाकाङ्क्षाक्रमेणाभिधानमितिं प्रथमं साध्याभिधानं विना कुतः इत्याकारकत्वाद्याकाङ्क्षाया अभावात् प्राथम्येन प्रतिज्ञाप्रयोगः । तथाहि विप्रतिपत्त्य समयबन्धानन्तरं शब्दानित्यत्वं साधय इति मध्यस्थस्य वादिनो वा आकाङ्क्षायां शब्दानित्यत्वं साध्यम् । न च साध्यनिर्देशं विना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org