________________
न्यायकोशः ।
२ क्वचितविशेषणविशेष्यतावच्छेदकभावानापन्नविरोधिकोटिद्वयप्रकारकैकधर्मिविशेष्यकज्ञानान्यज्ञानम् । यथा द्वितीययत्तुकारमते पक्षतावच्छेदकविशिष्टे निरुक्तसाध्यहेतुं वैशिष्ट्यावगाहिनिश्चयावृत्तिविषयितैव विरोधि - विषयितापदार्थः इति निर्वचने हृदो वह्निमान् धूमात् इत्यादौ हृदो वह्निमान् वह्निव्याप्यधूमवांश्च इति निश्चयः । अत्र कोटिद्वये विशेषणविशेष्यताव - च्छेदकभावानापन्नत्वनिवेशात् निर्वह्निः पर्वतो वह्निमान् इत्यादौ निर्वह्निः पर्वतो वह्निमान् वह्निव्याप्यधूमवांश्च इति निश्चयस्य नासंग्रहः (ग० २ हेत्वा० ० सामा० पृ० २७ ) । ३ क्वचित्तु आधेयताविशेषणतापन्नस्याधिकरणस्य या संशयत्वनिरूपकविशेष्यतान्यविशेष्यता तन्निरूपित प्रकारता - शालि ज्ञानम् । अत्रेदमवधेयम् । संशये च प्रत्येककोटिनिश्चयीयविशेष्यताभ्यामतिरिक्तैव विशेष्यता वर्तते इति ( ग० साधा० ) । तन्निरूपित प्रकारताशालि तादृशज्ञानं च साध्याभावांशे निश्चयः इत्युच्यते । ४ बुद्धेर साधारणवृत्तिविशेषः इति मायावादिनो मन्यन्ते ( वेदा० प० ) । ५ अध्यवसायः इति सांख्या: ( सांख्य० भा० २।१३ ) । ६ अर्थालंकारविशेषः इत्यालंकारिका आहुः ( वा० ) ।
निषिद्धम् — निषेधविषयीभूतम् । तच्च अनिष्टसाधनताबोधकलिङाद्यनुषक्तनञ्पदयोगिवाक्यगम्यम् । यथा न कल भक्षयेत् इत्यत्र कलञ्जभक्षणं निषिद्धम् । यथा वा न सुरां पिबेत् (श्रुतिः ) इत्यादौ सुरापानं निषिद्धम् । अत्र निषिद्धत्वं चाधर्मापादकत्वम् । अन्ये तु भ्रमावगतेष्टसाधनतानिषेधिनञ्पदयोगिवाक्यगम्यम् इत्यप्याहु. ( वाच० ) । निषेधः – १ ( वाक्यम् ) [क] अनिष्टसाधनताबोधको वाक्यविशेषः । स च द्विविधः । लौकिकः वैदिकश्च । तत्र लौकिकम् विषं मा भुङ्ग इति वाक्यम् । वैदिकं कल भक्षयेत् न सुरां पिबेत् अष्टम्यां मांसं नाश्नीयात् इत्यादिवाक्यम् । अत्र मांसभोजने अनिष्टसाधनत्वं बोधयति इति बोध्यम् (वा० ) । [ख] निवृत्तिपरं वाक्यम् । यथा न कल भक्षयेत् इति । अत्र कलञ्जभक्षणं नेष्टविशेषसाधनम् इति वाक्यार्थः । इष्टविशेषश्चात्र पापानुत्पत्तिरेव । तथैव वाक्यतात्पर्यात् ५६ न्या० को ०
1
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org