________________
न्यायकोशः। निर्विकल्पकेपि विषयतापेक्षितेति प्रकारता विशेष्यता संसर्गता एतत्रया
तिरिक्ता तुरीया विलक्षणविषयता स्वीक्रियते इति (नील० १ पृ०१७)। निलयनम् --किंचित्कर्तृकदर्शनाभावप्रयोजकदेशविशेषस्थितिः । यथा मातुनिलीयते कृष्ण इत्यादौ धात्वर्थो निलयनम् । धात्वर्थदर्शनकर्तात्रापादानम् । तत्पूर्वकनिवृत्तिर्धातोरर्थः । तत्र मातुरपादानत्वेनान्वय इति भाष्यमतम् । दर्शने मातृकर्तृकत्वं प्रत्यासत्तिगम्यम् (ल० म० सुब० का० ५ पृ० १०९)। अत्र अन्तर्षी येनादर्शनमिच्छति (पा० सू० १।४।२८ ) इत्यनेन मातुरपादानसंज्ञा । सूत्रार्थस्तु यत्कर्तृकदर्शनस्याभात्रमात्मनः माता मां न पश्यतु इति इच्छति ( कृष्णः )
तस्यापादानसंज्ञा इति । निवर्तनम्-विंशतिवंशपरिमिता भूमिः । वंशस्तु दशहस्तपरिमितः ।। निवारणम्-वारणम् । निवासः-यत्र देशे स्वयं बसति स देशः । अभिजनस्तु यत्र पूर्वैरुषितं
स देश इति विशेषः ( सि० कौ० तद्धि० पृ० १३८ )। निविष्टम्-भृत्या प्राप्तम् । निवृत्तिः-१ [क] जिहासाप्रयुक्तस्य दुःखसाधनपरिवर्जनम् (वात्स्या० प्रस्तावना० १।१।१ )। [ख] द्वेषजन्यो गुणः (सि० च० गुरु पृ० ३५ )। [ग] द्वेषजनितः प्रयत्नविशेषः (वै० उ० ३।१।१९)। लक्षणं च निवृत्तित्वमेव । तच्च द्वेषजन्यतावच्छेदकतया सिद्धो जातिविशेषः (दि० गु० ) । अत्रेदं बोध्यम् । निवृत्ति प्रति फलगतद्वेषो द्विष्टसाधनताज्ञानं च कारणम् (भा० ५० श्लो० १५३ ) इत्यन्वयव्यतिरेकाभ्यामवधार्यते (मु० गु० पृ० २३१ ) । अत्रायं विवेकः । दुःखसाधनविषयकनिवृत्तिं प्रति द्विष्टसाधनताज्ञानं कारणम् । दुःखनिवृत्तिं प्रति तु दुःखद्वेष एव कारणम् इति । [१] उत्कटद्वेषजन्यो यत्नविशेषः ( वै० वि० ३।२।१९)। [ङ ] द्विष्टसाधनताज्ञानजन्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org