________________
४३८
न्यायकोशः ।
1
1
अत्र नैयायिकाः । निर्विकल्पकज्ञानसत्त्वे प्रमाणमनुमानम् । तच्च विशिष्ट - ज्ञानं जन्यविशेषणज्ञानपूर्वकम् जन्यविशिष्टज्ञानत्वात् दण्डी पुरुषः इति विशिष्टज्ञानवत् इति ( न्या० दी० पृ० ३४ ) । निर्वि - कल्पकासत्त्वे सुप्तोत्थितस्य अयं घटः इति विशिष्टज्ञानं न स्यात् । विशेषणीभूतस्य घटत्वस्याज्ञानात् । विशेषणज्ञानं विना विशिष्टज्ञानानुदयेन विशेषणज्ञानस्य विशिष्टज्ञानहेतुत्वात् । तथा च विशेषणज्ञानमेव निर्विकल्पकम् इति तस्यावश्यकत्वमिति भावः ( त० कौ० १ पृ० ८ ) । चक्षुः संयोगाद्यनन्तरं घटः इत्याकारकं घटत्वादिविशिष्टज्ञानं न संभवति । पूर्वं विशेषणस्य घटत्वादेर्ज्ञानाभावात् । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । तथा च प्रथमतो घटघटत्वयोर्वैशिष्ट्यानवगाह्येव ज्ञानं जायते । तदेव निर्विकल्पकम् (मु० १ पृ० ११७- ११८ ) । निर्विकल्पकं यद्यपि न प्रत्यक्षसिद्धं तथापि अयं घटः इति विशिष्टज्ञानरूपकार्यानुमेयम् । तथाहि । जन्यतद्विशिष्टज्ञानं प्रति जन्यतद्विशेषणज्ञानं कारणमिति निर्विवादम् । भवति च प्राथमिकमस्माकम् अयं घटः इति जन्यघटत्वविशिष्टज्ञानम् । अतस्तत्रापि घटत्वज्ञानं कारणम् । न च तदानीं घटत्वविशिष्टज्ञानमस्ति । विशेषणीभूतघटत्वस्याज्ञानात् । अतो वैशिष्ट्यानवगाह्येव तद्वाच्यम् । तदेव निर्विकल्पकम् इति ( न्या० म० १ पृ० ३ ) । अत्रेदमवधेयम् । इन्द्रियजन्यज्ञानस्य कदा पुनर्ज्ञानं करणम् इति चेत् उच्यते । सविकल्पकज्ञानानन्तरं हानोपादानोपेक्षा बुद्धयो जायन्ते । तदा निर्विकल्पकं ज्ञानं करणम् । सविकल्पकमवान्तरव्यापारः । हानादिबुद्धयः फलम् इति ( त० भा० पृ० ६ ) । ननु निर्विकल्पक ज्ञानस्य प्रकारतादिशून्यत्वे तद्वति तत्प्रकारकत्वरूपं यथार्थत्वं कथम् इति चेत् उच्यते । तद्वन्निष्ठविशेष्यत्वानिरूपिता या या तत्तत्प्रकारता तत्तदनिरूपकत्वम् स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्तन्निरूपकत्वाभावकूटवत्त्वं वा याथार्थं विवक्षणीयम् । अथवा निर्विकल्पकं भ्रमप्रमाबहिर्भूतमेव प्रवृत्त्यनङ्गत्वात् इति तत्र तद्वति तत्प्रकारकत्वाद्यभावेपि नाव्याप्तिशङ्का इति । अत्रेदमवधेयम् । ज्ञानमात्रस्य सविषयकत्वेन
Jain Education International
•
For Personal & Private Use Only
www.jainelibrary.org