________________
न्यायकोशः।
४३७ कैक्यं संगतिः । यत्रैकेन कारणेन कार्यद्वयं तदधिकसंख्याकं वा कार्यमुत्पाद्यते तत्रेयं संगतिज्ञेया । इदं तु निर्वाहकत्वमित्यप्युच्यते (भवा० )। निर्विकल्पकम्—(प्रत्यक्षम् ) [क] नामजात्यादियोजनारहितम् वैशिष्ट्या
नवगाहि निष्प्रकारकं प्रत्यक्षम् ( चि० १) ( ता० र०)। वैशिष्ट्यानवगाहीत्यस्य वैशिष्ट्यनिष्ठसांसर्गिकविषयताशून्यमित्यर्थः ( त० प्र० १) (म० प्र० १ पृ. ९)। निष्प्रकारकमित्यस्यार्थश्च प्रकारताशून्यज्ञानम् (न्या० बो०)। [ख] विशेषणविशेष्यसंबन्धानवगाहि ज्ञानम् (त० दी०) (मु०) (त० कौ० १ पृ० ८ ) ( प्र० प्र०)। तथा च ज्ञानत्वघटितं विशेष्यताशून्यत्वम् विशेषणताशून्यत्वम् संसर्गताशून्यत्वं च लक्षणत्रयं पर्यवसितम् इति भावः ( नील० १ पृ० १७) ( वाक्य० १ पृ० १२) । तच्च वस्तुस्वरूपमात्रग्रहणम् । यदाहुः सांख्यवृद्धाः संमुग्धं वस्तुमात्रं तु प्राग्गृह्णात्यविकल्पितम् । तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ॥ इति ( सांख्य० कौ० श्लो० २७ टी० पृ० ३६ )। यथा किंचिदिदम् इति ज्ञानम् ( त० सं० )। यथा वा दूरात् किंचिदस्ति इति प्रत्यक्षम् (प्र० प्र०)। घटघटत्वे इत्याकारकं वा प्रत्यक्षम् ( त० कौ० १ पृ० ८ )। तच्च ज्ञानमतीन्द्रियम् अनित्यम् निराकारं चेति ज्ञेयम् (भा० ५० श्लो० ५९) (न्या० म०)। अत्र बौद्धैः वैभाषिकैः अभिधीयते निर्विकल्पकज्ञानमेव प्रमाणम्। कल्पनापोढत्वात् । तद्भिन्नं सर्वमप्रमाणम् । कल्पनाज्ञानत्वात् इति ( सर्व० पृ० ४४ बौद्ध०) । [ग] अलौकिक आलोचनात्मको ज्ञानविशेषः इति केचित् । तदुक्तं सांख्यवृद्धः अस्ति ह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं मुग्धवस्तुजम् ॥ ततः परं पुनर्वस्तु धमॆर्जात्यादिभिर्यया। बुद्ध्यावसीयते सा हि प्रत्यक्षत्वेन संमता ॥ इति ( सांख्य० कौ० श्लो० २७ पृ० ३६)। [घ] मायावादिनस्तु ज्ञातृज्ञेयादिविभागशून्यं ब्रह्मैकात्मविषयमखण्डाकारकं विशेष्यविशेषणसंबन्धरहितं ज्ञानम् इत्याहुः ( वाच०)। मध्वमतानुयायिवेदान्तिनस्तु निर्विकल्पकं ज्ञानं नाङ्गीकुर्वन्ति (प्र०प० पृ० ११)।
'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org