________________
न्यायकोशः। षणशून्याद्ब्राह्मणादेश्च व्यावृत्तः क्षत्रियो भवति । नराणां क्षत्रियः शूरः नरेषु वा । अध्वगानां रथगामिनः शीघ्रतराः अध्वगेषु वा । गवां कृष्णा संपन्नक्षीरा गोषु वा इत्यादौ यतश्चः निर्धारणम् (पा० सू० २॥३॥४१ ) इत्यनेन षष्ठीसप्तम्यौ विधीयते। सूत्रार्थश्च जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनम् तद्धर्मावच्छिन्नार्थकपदात् षष्ठीसप्तम्यौ इति । एतदुक्तं भवति । जातिगुणक्रियासंज्ञाविशिष्टस्यैकदेशस्य यतः स्वघटितसमुदायात्स्वेतरसमुदायघटकव्यावृत्तधर्मकरणकं पृथक्करणं तद्वाचकात् षष्ठीसप्तम्यौ स्त इति । अत्र स्वेतरार्थस्य समुदायघटकार्थे अभेदेनान्वयः । उदाहरणानि तु नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावञ्छीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः । विस्तरस्तु शेखरादौ द्रष्टव्यः । प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छ्न्यनरादिव्यावृत्तत्वेन शौर्यविशेषादिरूपविधेयसंबन्धोभिमतः इति नरादिपदात् षष्ठी (ग० व्यु०
का० ६ पृ० ११३ )। निर्मन्थ्यम्-प्रोक्षणसाधनजलम् (जै० सू० वृ० अ० १ पा० ४ सू० १२)। निर्वत्यम्- (कर्म)[क] क्रियया यन्निष्पाद्यते तत् । यथा कटं घटं
वा करोतीत्यादौ । अत्र कुञः फलावच्छिन्नव्यापाराबोधकतया गौणकर्मत्वम् । तच्च साध्यताख्यं कृतिविषयत्वम् ( का० व्या० पृ० ६)। निर्वर्त्यमेव च उत्पाद्यम् इति कैश्चिच्छास्त्रकारैर्व्यवह्रियत इति विज्ञेयम् । अथ निर्वय॑त्वस्य लक्षणमुच्यते । घटौदनादीनां या मृत्तण्डुलादिप्रकृतिः तादृशप्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वम् (वै० सा० द० सुब० पृ० १६३ ) । अथवा प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वम् । यथा घटं करोतीत्यादौ घटादेः क्रियाजन्योत्पत्तिमत्त्वान्निवय॑त्वम् (वाच०)। तदुक्तं भर्तृहरिणा सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org