________________
४३४
न्यायकोशः ।
यथा साध्यनिर्देशः प्रतिज्ञा ( गौ० १|१|३३ ) इत्यादौ । [ घ ] प्रतिपादकः शब्दः । यथा ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ( गीता अ १७ श्लो० २३ ) इत्यादौ । २ निर्णयेन कथनम् । यथा अतुषत्पीठमासन्ने निरदिच्च काञ्चनम् ( भट्टिः ) इत्यादी । ३ उपदेशः । ४ शासनम् आज्ञा । ५ वेतनम् । यथा कालमेव प्रतीक्षेत निर्देशं भृतको यथा ( पुराणम् ) इत्यादौ ( वाच० ) । निर्धनः- भार्या दासश्च पुत्रश्च निर्धनाः सर्व एव ते । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ( जै० सू० वृ० अ० ६ पा० १ सू० १३ ) ।
I
1
निर्धर्मकत्वम् — १ किंचिन्निष्ठप्रकारत्वानिरूपकत्वम् । यथा निर्विकल्पकज्ञानस्य निर्धर्मकत्वम् । २ मायावादिनस्तु स्वभिन्नधर्मशून्यत्वम् । यथा ब्रह्मणो निर्धर्मकत्वम् इति वदन्ति ( दि ० १ ) | निर्धारणम् [क] विशेषस्य स्वेतरसामान्यव्यावृत्तधर्मवत्त्वम् । यथा नराणां क्षत्रियः शूरतमः नरेषु वा इत्यत्र ( श० प्र० श्लो० ९३ टी० पृ० १२८ ) । ख ] जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्धर्मावच्छिन्न व्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनम् । जात्यादयः जातिगुणक्रियासंज्ञाः । तथा च नराणां क्षत्रियः शूर इत्यादौ जातिः क्षत्रियत्वम् तच्च तद्विशेषणं च तेन विशिष्टो यद्धर्मावच्छिन्नः नरत्वरूपसामान्यधर्मावच्छिन्नः तस्य तादृशविशेषणम् क्षत्रियत्वम् तेन शून्यस्तद्धर्मावच्छिन्न: नरत्वावच्छिन्नः तस्माद्व्यावृत्तत्वम् अवृत्तित्वम् तेन विशिष्टम् सहितम् विधेयम् शौर्यम् तद्वत्तया प्रतिपादनम् इति । नरेभ्यो राक्षसाः शूरतमाः इत्यादौ राक्षसत्यादिविशेषणविशिष्टे तच्छून्यनरादिव्यावृत्तशूरतमत्व विवक्षायामपि न निरुक्तनिर्धारणम् । राक्षसत्वादिविशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात् । अतो नातिव्याप्तिः । नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्यावृत्तत्वबाधात् असंभवः । अतः शून्यत्वान्तं व्यावृत्त्यवधेस्तद्धर्मावच्छिन्नेत्यस्य विशेषणं दत्तम् । तादृशक्षत्रियत्वजातिरूपविशे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org