________________
न्यायकोशः।
४३३ पुरुषो वा इति संशयोत्पत्ती शिरःपाण्यादिदर्शनात् पुरुष एवायम् इत्यवधारणज्ञानं प्रत्यक्षनिर्णयः । द्वितीयं यथा विषाणमात्रदर्शनात् गौर्गवयो वा इति संशयोत्पत्तौ सास्नामात्रदर्शनात् गौरेवायम् इत्यवधारणज्ञानम् अनुमाननिर्णयः इति ( प्रशस्त० २ पृ० ३२ )। [ख] विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ( गौ० ११११४१ )। तदर्थश्च विमृश्य संदिह्य पक्षप्रतिपक्षाभ्यां साधनोपालम्भाभ्यामर्थस्यावधारणम् । तदभावाप्रकारकं तत्प्रकारकं ज्ञानमित्यर्थः । यद्यप्येतावदेव निर्णयसामान्यलक्षणं तथापि विमृश्येत्यादिकं जल्पवितण्डास्थलीयनिर्णयमधिकृत्य । तदुक्तं भाष्ये शास्त्रे वादे च विमर्शवर्जमिति । एवं प्रत्यक्षतः शब्दाच निर्णये न विमर्शपक्षप्रतिपक्षापेक्षेति (गौ० वृ० १।१।४१ ) (वात्स्या० १।११४१)। अत्रायं विशेषो ज्ञेयः । निर्णयस्तत्त्वज्ञानम् प्रमाणानां फलम् (वात्स्या० १।१।१ पृ०.६ ) ( त० भा० पृ० ४४ )। निर्णयस्तत्त्वज्ञानं प्रमाणानां फलम् । तच्च यदा वस्त्वन्तरपरिच्छेदहेतुत्वेन नोपादीयते तदा फलम् । यदा तेन परिच्छिनत्ति तदा प्रमाणम् इति न व्यवतिष्ठते प्रमाणफलभावः- (न्या० वा० १ पृ० १९)। स्थापना साधनम् । प्रतिषेध उपालम्भः । तौ साधनोपालम्भौ पक्षप्रतिपक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावित्युच्यते । तयोरन्यतरस्य निवृत्तिरेकतरस्यावस्थानमवश्यंभावि। यस्यावस्थानं तस्यावधारणं निर्णयः ( वात्स्या० १।१।४१)। [ग] यथार्थानुभवपर्याया प्रमितिनिर्णयः ( सर्व० सं० पृ० २३९ अक्षपा० )। २ अधिकरणाङ्गविशेषः इति मीमांसका आहुः । अत्रोच्यते। विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेधिकरणं स्मृतम् ॥ इति । ३ सिद्धान्त
सिद्धविचार्यवाक्यतात्पर्यावधारणमिति सांग्ख्या आहुः (सांख्य० को०)। निर्देशः-१ [क] शब्दप्रयोगः (गौ० वृ० ५।२।८ ) । यथा वर्ण
क्रमनिर्देशवन्निरर्थकम् (गौ० ५।२।८ ) इत्यादौ । [ख] उच्चारणम् । यथा अनुनासिक इति निर्देशात् इत्यादी निर्दिश्यमानस्यादेशा भवन्ति (सि० कौ० ) इत्यादौ च । [ग] यत्किंचिदर्थप्रतिपादकः शब्दः । ५५ न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org