________________
न्यायकोशः ।
११
अद्यतन: - ( कालः ) [क] अतीतरात्रे रन्त्ययामेनागामिन्या रात्रेः पूर्व
यामेन च सहितः कालः ।
[ख] अतीताया रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धेन च सहितो दिवस इति शाब्दिका वदन्ति ( ल० म० ) ।
अद्रव्यद्रव्यत्वम् – असमवेतद्रव्यत्वम् (गं० दशा ० ) । यथा आकाशादेर्निरवयवद्रव्यस्य कुत्रापि समवायेनावर्तमानस्य अद्रव्यद्रव्यत्वम् । अद्वैतम् — द्विधा इतं द्वीतम् । तस्य भावो द्वैतम् । द्विघेतं द्वीतमित्याहुस्तद्भावो द्वैतमुच्यते ( बृ० वा० ४ | ३ | १८०७ ) । न विद्यते द्वैतं द्विधाभावो यत्र तत् ( सिद्धान्त बि० लो० १० ) ।
1 ।
अधः – ( दिक् ) [ क ] गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगांश्रयो दिग्विशेषः (वै० उ० २।२।१० ) ।
[ख] पतनजन्यसंयोगाश्रयः (वै० वि० २।२।१० ) । यथा पर्ण - मधः पततीत्यादौ ।
अधर्मः - (गुणः) [क] शरीरादिजनकात्म विशेषगुणः ( त० भा० गु० ३६ ) । अयं च जीवमात्रसमवेतो भोगप्रायश्चित्तादिनाश्यश्चेति विज्ञेयम् ( त ० कौ० ) । अधर्मो न प्रत्यक्षः किं त्वनुमानगम्यः । तच्चानुमानं देवदत्तस्य शरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तस्य भोगहेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुवत् इति ज्ञेयम् ( त० भा० गु० ३६ ) । [ख] नरकदुःखादिदुःखानां साधनम् ( मु० ) । [ग] निषिद्धकर्मजन्य: ( त० सं० ४ ) । निषिद्धकर्म चात्रानिष्टसाधनत्वेन वेदबोधितं कर्म ( वाक्य ० ) । तच्च सुरापानादि । [घ] दुःखासाधारणं कारणम् ( प्र० प्र० ) । अधर्म आत्मगुणः कर्तुरहित प्रत्यवायहेतुः अतीन्द्रियः सम्यग्ज्ञानविरोधी ।
तस्य तु साधनानि शास्त्रप्रतिषिद्धानि धर्मसाधन विपरीतानि हिंसानृत
१ गुरुत्वमेव असमवायिकारणं यस्यास्तया क्रियया जन्यो यः संयोगस्तदाश्रय इति विग्रहः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org