________________
न्यायकोशः। स्तेयादीनि विहिताकरणं प्रमादश्च । एतानि दुष्टाभिसंधि चापेक्ष्यात्ममनसोः संयोगादधर्मोत्पत्तिरिति । अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्माप्रकृष्टात्स्वल्पाधर्मसहिताद्ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्टशरीरेन्द्रियविषयसुखादिभिर्योगो भवति । तथा प्रकृष्टादधर्मात्स्वल्पधर्मसहितात्प्रेततिर्यग्योनिस्थानेषु अनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति । एवं प्रवृत्तिलक्षणाद्धर्मादधर्मसहिताद्देवमानुषतिर्यङ्नरकेषु पुनःपुनः संसारप्रबन्धो भवति । ज्ञानपूर्वकात्तु कर्मणः कृतादसंकल्पितफलाद्विशुद्धकुले जातस्य दुःखवियोगोपायजिज्ञासोराचार्यमुपगम्योत्पन्नषट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्ती विरक्तस्य रागद्वेषाभावात्तज्जयोर्धर्माधर्मयोरनुत्पत्तौ संचितयोरुपभोगान्निरोधे संतोषसुखं शरीरपरिखेदं चोत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते । तदा नित्यस्यात्मनः शरीरादिनिवृत्तौ बीजाभावेन पुनः शरीरा
द्यनुत्पत्तौ दग्धेन्धनानलबदुपशमो मोक्ष इति (प्रशस्त • गु० पृ० ३६)। अधिकम् - (निग्रहस्थानम् ) [क] हेतूदाहरणाधिकमधिकम् (गौ०
५।२।१३)। एकेन कृतत्वादन्यतरस्यानर्थक्यमिति । तदेतन्नियमाभ्युपगमे वेदितव्यमिति ( वात्स्या० ५।२।१३ )। नियमश्चैकस्यैव हेतोदृष्टान्तस्य वा प्रयोगः कर्तव्य इत्याकारको वादिप्रतिवाद्युभयसंमतः पूर्वकृतः संकेतः। [ख] कृतकर्तव्यापुनरुक्ताभिधानम् (गौ० वृ० ५।२।१३ ) । अनुवादस्तु न कृतकर्तव्यः साभिप्रायत्वात् । प्रतिज्ञाधिक्यं च पुनरुक्तम् । धूमादालोकात् महानसवत् चत्वरवत्-इत्यादिकं तु विना समयबन्धं दाढ्यादिभ्रमादुक्तमधिकम् । यथा महानसं महानसवत्-इति तु नाधिकं किं तु पुनरुक्तम् (गौ० वृ० ५।२।१३ )। [ग] अधिकहेत्वादिकथनम् । यथा शब्दोनित्यः शब्दत्वाच्छ्रावणत्वाच्चेत्यादि ( नील० ) ( दि० १ )। अधिकरणम्- (कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहस्थया सप्तम्या - यः स्वार्थोनुभाव्यते तदेव तद्धातूपस्थाप्यतादृशक्रियायामधिकरणं नाम
कारकम् । यथा ग्रामे गन्तेत्यादौ । अत्र धात्वर्थे गतौ ग्रामनिष्ठम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org