________________
न्यायकोशः ।
नियामकत्वम् – १ प्रयोजकत्वम् । २ नियमकारकत्वम् । यथा कारणस्य कार्य प्रतिनियामकत्वम् इत्यत्रादृष्टकालादेः कार्यमात्रं प्रति नियामक - त्वम् । ३ निरासकत्वम् । यथा लोकप्रसिद्धमेवैतद्वारि वहेर्नियामकम् ( कामन्द ० ) इत्यादौ ( वाच० ) ।
४२८
नियोगः - १ [क] एवं कुरु इत्याज्ञा ( कि० व० ६ ) । यथा पुत्रो - त्पादनाय विधवाया नियोजनम् । अत्रोच्यते । उक्तो नियोगो मनुना निषिद्धः स्वयमेव हि इति ( बृहस्पतिः ) । तथा हि नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् || नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् । न विवाहविधावुक्तं विधवावेदनं पुनः । इति ( मनु० अ० ९ श्लो० ६४-६५ ) । [[ख] प्रेरणम् । [ग] इष्टसाधनत्वादिबोधनेन प्रवर्तनम् । [घ] केचित्तु प्रवर्तकज्ञानोपधायकता निर्वाहकव्यापारः । यथा स्वर्गकामो यजेत इत्यादौ योग्यतया नियोगो बोध्यत इत्याहु: ( वाच० ) । २ अवधारणम् । यथा तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ( रघु० स० १७ श्लो० ४९ ) इत्यादौ । अत्र कौटिल्यः अनेनैवोपायेन नान्येन इति नियोगः इति ( रघु० टी० १७१४९ ) ।
नियोजकत्वम् —— तत्कामिकृतिसाध्यतया प्रतीयमानत्वम् ( न्या० म० ४ पृ० ६३ ) । यथा प्राभाकरमते विध्यर्थस्यापूर्वात्मकस्य कार्यस्य नियोजकत्वम् (त० प्र० ख० ४ पृ० १११ ) । नियोज्यत्वम् - [क] प्रवर्तनीयत्वम् । तच्च प्रवर्तनाकर्मत्वम् । प्रवर्तनाकर्मत्वं तज्जन्यप्रवृत्तिमत्त्वम् ( वाच० ) । यथा स्वर्गकामो यजेत इत्यादौ स्वर्गकामो यागे नियोज्यः ( चि० ४ ) । [ख] केचित्तु प्रवर्तकज्ञानोपधायकत्वम् इत्याहुः ( वाच० ) ।
1
निर् - ( अव्ययम् ) १ वियोगः । यथा निःसङ्ग इत्यादौ । २ अत्ययः । यथा निर्मेघम् इत्यादौ । ३ आदेशः । यथा निर्देशः इत्यादौ । ४ अतिक्रमः । यथा निष्क्रान्तः इत्यादौ । ५ भोगः । यथा निर्वेशः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org