________________
न्यायकोशः।
કરશે इत्यादौ। ६ निश्चितम् । यथा निश्चितमित्यादौ । ( गणरत्न० )। ७ निषेधः । यथा निर्मक्षिकम् इत्यादौ । अयं शब्दः प्रादिः सान्तो
रान्तश्चेति विज्ञेयम् ( वाच० )। निरनुयोज्यानुयोगः- ( निग्रहस्थानम् ) [क] अनिग्रहस्थाने निग्रह
स्थानाभियोगो निरनुयोज्यानुयोगः ( गौ० ५।२।२२ )। निग्रहस्थानलक्षणस्य मिथ्याध्यवसायादनिग्रहस्थाने निगृहीतोसीति परं ब्रुवन्निरनुयोज्यानुयोगान्निगृहीतो वेदितव्य इति ( वात्स्या० ५।२।२२ ) । अवसरे यथार्थनिग्रहस्थानोद्भावनातिरिक्तं यन्निग्रहस्थानोद्भावनं तत् इत्यर्थः । एतेन अवसरे निग्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावने च नातिव्याप्तिः (गौ० वृ० ५।२।२२ )। [ख] निग्रहस्थानरहिते निग्रहस्थानोद्भावनम् (नील० पृ० ४६ )। सोयं चतुर्धा । छलम् जातिः आभासः अनवसरग्रहणं च ( गौ० वृ० ५।२।२२) (दि. १)
(ता० र० परि० ३ श्लो० १५१ ) ( सा० सं० पृ० ११७ )। . निरर्थकम्-१ ( निग्रहस्थानम् ) अस्य संभवः प्रमादात् इत्यवधेयम्
(गौ० वृ० ५।२।८ ) । [क] वर्णक्रमनिर्देशवन्निरर्थकम् ( गौ० ५।२।८ )। तदर्थश्च वर्णानां क्रमेण निर्देशो जबगडेत्यादिप्रयोगः तत्तुल्यो निर्देशः इति (गौ० वृ० ५।२।८)। यथा नित्यः शब्दः कचटतपाः जबगडदश्त्वात् झभञ्घढधवत् इति । एवंप्रकार निरर्थकम् । अभिधानाभिधेयभावानुपपत्तावर्थगतेरभावाद्वर्णा एव क्रमेण निर्दिश्यन्त इति ( वात्स्या० ५।२।८)। [ख समयबन्धव्यतिरेकेणावाचकपदप्रयोगः ( गौ० वृ० ५।२।८ ) ( दि. १) । समयबन्धव्यतिरेकेणेति विशेषणदानेन यत्र अपभ्रंशेन विचारः कर्तव्यः इति समयबन्धस्तत्रापभ्रंशे न दोषः । अत्र वाचकत्वं शक्त्या निरूढलक्षणया शास्त्रपरिभाषया वा बोध्यम् ( गौ० वृ० ५।२।८)। [ग] अवाचकशब्दप्रयोगः । यथा शब्दो नित्यः जबगडदश्त्वात् इत्यादि ( नील० पृ० ४५ )। २ काव्यदोषविशेषः इत्यालंकारिका आहुः । अत्रोच्यते निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् इति ( चन्द्रा० )। ३ निष्फलम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org