SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। संतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ( पात योगसू० २।३२) ' इति योगाङ्गविशेषाः इति योगिन आहुः ( गौ० वृ० ४।२।४४ )। .. ५ तत्तद्व्यापारेषु भगवत्प्रेरणम् इति वेदान्तिनो मध्वाचार्यानुयायिनः प्राहुः । ६ प्रतिज्ञा । ७ स्वीकारः । ८ आगन्तुकसाधनकर्मरूपं व्रतम् । ९ नियन्त्रणा । १० निश्चयः इत्यादि (वाच० )। नियमविधिः-(विधिः ) [क] यत्रोभयोः प्राप्तावेको नियम्यते तत्र . नियमविधिः । यथा व्रीहीनवहन्ति (श्रुतिः ) इत्यादौ ( सि० च० ४ पृ० ३३ ) । अत्र नियमः अयोगव्यवच्छेदः ( श० प्र० श्लो० १०० टी० पृ० १७८ ) । अत्र व्रीहिषुः नखविदलनमुसलावहननयोः प्राप्तौ मुसलावहननमेव नियम्यते ( सि० च० ४ पृ० ३३ ) । नियमविधेः प्रयोजनं च एतद्विध्यभावे दर्शपूर्णमासादिकेषु व्रीहिषूत्पत्तिवाक्यावगतपुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यकार्यायावहननवत् कदाचिन्नखविदलनमपि प्राप्नुयादिति तस्मिन्पले अवहननस्य प्राप्त्यभावात् कार्यान्यथोपपत्तेरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सत्यस्मिन्विधौ अवहननेनैव वैतुष्यं कार्यम् इति नियमे सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् । न च वैतुष्यस्य नखविदलनेनापि संभवादवहनननियमो व्यर्थः । प्रयोजनाभावादिति वाच्यम् । अवघातेनैव वैतुष्यकरणे किंचिददृष्टं जन्यत इत्यदृष्टाङ्गीकारात् ( मीमां० परि० ) ( वाच० )। [ख] पक्षे अप्राप्तस्य नियामको विधिः । यथा व्रीहीनवहन्ति इति ( म० प्र० ४ पृ० ६२)। [ग] नानासाधनसाध्यक्रियायामेकसाधनप्राप्तावप्राप्तस्यापरसाधनस्य प्रापको विधिः इति मीमांसका आहुः ( लौ० भा० पृ० ३९)। [घ ] यो विधिः पक्षे अप्राप्तमर्थ नियमयति सः । यथा व्रीहीनवहन्ति इति ( मीमां० परि०)। [6] अन्य निवृत्तिफलकसिद्धविषयकविधिनियमविधिः इति शाब्दिका वदन्ति । परे ... तु यत्र क्रियायां विकल्पेन कारकान्वयः सः । यथा याजनाध्यापन. प्रतिग्रहैर्ब्राह्मणो धनमर्जयेत् इत्यादौ नियमविधिः इत्याहुः ( त० प्र० .. ख० ४ पृ० १०८)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy