________________
न्यायकोशः।
४२५ वार्तिके निमित्त फलम् इत्याहुः (सि० कौ० )। ५ शरव्यम् इति
काव्यज्ञा आहुः ( वाच० )। निमित्तत्वम्-१ [क] क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषय
त्वम् । यथा चर्मणि द्वीपिनं हन्तीत्यादौ चर्मादीनां निमित्तत्वम् (गदा० व्यु० कार० ७ पृ० ११६ )। अत्र विनियोज्यत्वेनेच्छा च इदं चर्म हननेन मम प्राप्यताम् इति प्राप्यत्वप्रकारकेच्छा । तथा च चर्मणि द्वीपिनं हन्तीत्यादौ हननादिक्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषयत्वं चर्मादौ निमित्तत्वम् इति विज्ञेयम् । समुदितश्लोकस्तु चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥ इति ( सि० को०)। सीमा अण्डकोशः । पुष्कलको गन्धमृगः । अत्र निमित्तात्कर्मयोगे ( वार्तिकम् ) इत्यनेन सप्तमी यत्किचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तदर्थश्च द्वीप्यादिरूपकर्मयोगे निमित्ताचर्मादिरूपात्सप्तमी। निमित्तं हि फलम् । योगस्तु संयोगः समवायो वेति । इयं सप्तमी प्रकृत्यर्थचर्मा देहननादिक्रियानिमित्तत्वं बोधयति । तथा च सप्तम्यर्थः स्वविषयकतादृशेच्छाधीनत्वम् । तस्य क्रियायामन्वयः। तदेकदेशविषयितायां निरूपकत्वेन प्रकृत्यर्थस्यान्वयः (ग० व्यु० का० ७ पृ० ११६ ) ( का० व्या० पृ०११)। स्वपदार्थश्चर्म । एवं च चर्मादिविषयकेच्छाधीना या व्याघ्रकर्मिका हननक्रिया तत्कर्ता इति वाक्यार्थबोधः। [ख] फलत्वेनेच्छाविषयत्वम्। यथा चर्मणि द्वीपिनं हन्तीत्यादौ सप्तम्यर्थः। अत्रायं विशेषो ज्ञेयः। चर्मास्मकफलस्य सिद्धतया स्वरूपफलवत्त्वेनैवेच्छा प्रयोज्यत्वेन धात्वर्थेन्वेति । तथा च चर्मप्रकारकेच्छाप्रयोज्यद्वीपिहननानुकूलकृतिमान् इति बोधः इति ( का० व्या० पृ० ११) । [ग] शाब्दिकास्तु फलत्वम् उद्देश्यत्वं वा निमित्तत्वम् । यथा निमित्तात्कर्मयोगे इत्यादी इत्याहुः । २ फलत्वेनेच्छा। यथा मशकनिवृत्तौ धूमं करोतीत्यादौ सप्तम्यर्थः । अत्र मशकनिवृत्तिः फलम् । सप्तम्यर्थस्य मशकनिवृत्तीच्छायाः प्रयोज्यत्वसंबन्धेन करोतीत्यर्थेन्वयः । तथा च मशकनिवृत्तीच्छाप्रयोज्यधूमकरणाश्रयः इति बोधः ( का० व्या० पृ० ११ )। ५४ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org