________________
न्यायकोशः। (वात्स्या० ५।१।३५ )। अयं नित्यसमश्च आचार्यमते बाधदेशनाभासः सत्प्रतिपक्षदेशनाभासश्च भवति । वृत्तिकारमते तु विरुद्धदेशनाभासो भवति इति विज्ञेयम् ( गौ० वृ० ५।१।३५ )। [ख] धर्मस्य नित्यत्वानित्यत्वविकल्पाद्धर्मिणि नित्यत्वसाधनम् । यथा शब्दस्य यदनित्यत्वं भवद्भिरुच्यते तन्नित्यमनित्यं वा । यदि नित्यं तदा शब्दवृत्तेरेव तस्य सदातनत्वाच्छब्दस्यापि तथात्वमागतम् । अथानित्यम् तदा शब्दे कदाचिदनित्यत्वाभावोस्तीति नित्य एव शब्दः इत्युभयथापि शब्दस्य नित्यत्वमिति ( नील० पृ० ४५ )। [ग] धर्मस्य तदतद्रूपविकल्पानुपपत्तितः। धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत्॥ (तार्किकरक्षा)। तहि विधम् । साधारणम् असाधारणं च । तत्रायं स्वव्याघातकम्। द्वितीयं त्रिविधम् । युक्ताङ्गहीनत्वम् अयुक्ताङ्गाधिकत्वम् अविषयवृत्तित्वं चेति
( सर्व० पृ० १५३ पूर्ण० )। नित्यसमासः- ( समासः ) [क ] स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण
यल्लभ्यार्थस्याबोधः सः । यथा कृष्णसर्प निर्मक्षिक असुर इत्यादिः । अत्रोक्तं जयादित्येन विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु । स्वार्थस्याबोधबोधाभ्यां नित्यानित्यौ समासकौ ॥ इति । अत्र कृष्णः सर्पः मक्षिकाया निः न सुरः इत्यादितस्तल्लभ्यस्य वैजात्यादेरग्रहात् लक्षणसमन्वयः ( श० प्र० श्लो० ३२ पृ० ४०)। [ख] शाब्दिकास्तु समस्य
मानयावत्पदरहितविग्रहवाक्यसूचितः समासविशेषः इत्याहुः (वाच०)। निदर्शनम् [क] उदाहरणम् ( प्रशस्त० २ पृ० २८)। [ख]
दृष्टान्तः । यथोक्तं मायावादिभिः आत्मा ह्याकाशवजीवैर्घटाकाशैरिवोदितम् । घटादिवच संघातर्जातावेतन्निदर्शनम् ॥ इति । अत्र भाष्यम् यदा मन्दबुद्धिप्रतिपिपादयिषया श्रुत्यात्मनो जातिरुच्यते जीवादीनां तदा जातावुपगम्यमानायामेतन्निदर्शनं दृष्टान्तो यथोदितमाकाशवदित्यादीनि
इति ( शब्दार्थचि० ) ( वाच० )। निदर्शनाभासः-उदाहरणत्वेन भासमानः पदार्थः । यथा नित्यः शब्दः ... अमूर्तत्वात् । यदमूर्त तन्नित्यं दृष्टम् यथा परमाणुः यथा स्थाली यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org