________________
न्यायकोशः ।
1
नमन्त्याख्यातशब्दे गुणभावेन नमन्ति वा स्वमर्थमाख्यातशब्दवाच्ये गुणभावेनेति नामानि । तथा चोक्तम् शब्देनोच्चारितेनेह येन द्रव्यं प्रतीयते । तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ॥ इति ( निरुक्ते नैघण्टुक० पूर्वषङ्के अ० १ पा० ९ख० १ दुर्गाचार्य कृतटीका ) । [ ख ] प्रातिपदिकरूपः शब्दविशेषः । यथा घटोस्तीत्यत्र घटशब्दः इति पाणिनीया आहुः । [ग] पौराणिकास्तु वाचकशब्दः । यथा हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ इत्यादी इत्याहुः । नाम चतुर्विधम् । रूढम् लक्षकम् योगरूढम् यौगिकं चेति । केचित्तु रूढयौगिकमप्यधिकं पञ्चमं नाम स्वीकुर्वन्ति । यथा मण्डपमहारजतादि । तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिथ समुदायशक्त्या रूढ्यर्थमेवाभिधत्ते इत्यपरेषां मतम् (श० प्र० श्लो०१५ पृ० १६ ) । पतञ्जलिस्तु पञ्चविधं नाम इत्याह । तत्र प्रथमम् सुपां मध्य एकवचनमात्रसाकाङ्क्षम् । यथा एकविंशति इत्यादिपदम् । द्वितीयम् द्विवचनमात्रसाकाङ्क्षम् । यथा उभ द्वि पुष्पवत् पुष्पवन्त इत्यादिपदम् । तृतीयम् बहुवचनमात्र साकाङ्क्षम् । यथा प्राण त्रि चतुर् इत्यादि पदम् कतिपदं च । चतुर्थम् द्विवचनमात्रनिराकाङ्क्षम् । यथा उभय इति पदम् । पश्चमम् वचनत्रयसाकाङ्क्षम् । यथा घट पट इत्यादिपदम् ( श० प्र० श्लो० ५४ पृ० ६९-७० ) । प्रकारान्तरेण नाम पचविधम् उणाद्यन्तं कृदन्तं च तद्धितान्तं समासजम् । शब्दानुकरणं चैव नाम पञ्चविधं स्मृतम् ॥ इति ( वा० ) । नाम शब्दसंस्कारसिद्धयर्थं त्रिधा भिद्यते स्त्रीलिङ्गम् पुंलिङ्गम् नपुंसकलिङ्गम् चेति ( श० प्र० श्लो० ५३ पृ०६८ ) । २ संज्ञाशब्दः । यथा अयं देवदत्त इत्यादौ देवदत्त इति शब्दः । द्वादशे - हनि पिता नाम कुर्यात् इतीश्वरेच्छया पिता स्वपुत्रस्य देवदत्त इत्यादि नाम करोति इति विज्ञेयम् । यथा च नामजात्यादि योजनाहीनं ज्ञानं निर्विकल्पकम् ( सि० च० १ पृ० २१ ) इत्यादौ । नामकरणम् – पुत्रादीनां केशवादिनाम्ना व्यवहारः ( सर्व० सं० पृ० १३८ पूर्ण प्र० ) ।
1
Jain Education International
For Personal & Private Use Only
૪૦૦
www.jainelibrary.org