________________
न्यायकोशः। पृ० १२६ ) । २ नमस्कारः। यथा हरये नम इत्यादौ ( ल० म० का० ४ पृ० १०५ ) (ग० व्यु० का० ४ पृ० ९९ )। ३ अन्तम् ।
४ वनम् । ५ यज्ञः । यथा यज्ञो वै नमः ( श्रुतिः ) इत्यादौ ( वाच० )। नमस्कारः-[क] यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूलव्यापारविशेषः तस्य स नमस्कारः (चि० मङ्ग० १ पृ० १०३ ) ( म० प्र० २)। स्वापकर्षबोधानुकूलः विलक्षणः स्वीयव्यापारः इति परमार्थः । अत्र स्वमुच्चारयिता ( ग० व्यु० कार० ४ पृ० १०१ ) ( राम०)। यथा देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः शिष्टानाम् इत्यादी (मू० म० मङ्ग० १ पृ० १०१ ) । यथा वा हरये नमः इत्यादौ नमस्कारः । अत्र नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च (पा० सू० २।३।१६ ) इत्यनेन चतुर्थी ज्ञेया (ल० म० सुब० कार० ४ पृ० १०५)। नमस्कारत्वं च स्वापकर्षबोधजनकतावच्छेदकजातिमत्त्वम् ( मू० म० १ पृ० १०४ ) । अथवा मानसत्वव्याप्यजातिविशेषः (म० वा० पृ० १० )। ज्ञानविशेषो वा । स च विशेषो व्यवहारसाक्षिको जातिभेद एव। कायिकाद्यन्यतमत्वं वा ( न्या० दी० पृ० ३)। नमस्कारभेदाश्च कालीपुराणे उक्ताः । यथा त्रिकोणमथ षटोणमर्धचन्द्रं प्रदक्षिणम् । दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ॥ इति ( वाच० )। [ख] स्वापकर्षबोधनानुकूलः स्वीयव्यापारः । यथा हरये नम इत्यादौ नमःपदार्थः। अत्र स्वमुच्चारयिता। अवधित्वम् अवधिमत्त्वं वा चतुर्थ्यर्थः । तस्य नमस्कारपदार्थघटकेपकर्षेन्वयः । तथा च चैत्राद्युच्चारितात् नमो हरये इत्यादिशब्दात् हर्यवधिकचैत्रापकर्षबोधानुकूलश्चैत्रीयव्यापारः इत्याकारको बोधः (ग० व्यु० का० ४ पृ० १०१)। स्वापकर्षबोधानुकूलव्यापारे च कायिकवाचिकमानस
रूपे विशेषो जातिविशेष एवानुभवसाक्षिकः ( चि० १ पृ० १०३)। । यथा वा ब्राह्मणेभ्यो नमो नित्यमित्यादौ । अत्र विषयत्वं चतुर्थ्या बोध्यते
(श० प्र० श्लो० ९२ पृ० १२६ )। यथा वा नमस्करोति नमस्कृत्य :, इत्यादौ । अत्र शाब्दिका आहुः । अत्र कृधातोरेव नमनार्थकता।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org