________________
न्यायकोशः। दृशार्थस्वीकारेण च अभावेन न पौनरुक्त्यम् इति ध्येयम् ( वाच० )। नक्तम् – प्रदोषात्प्राक् तदिनाधिकरणकभोजनाभावे सति तदहोरात्रावयव
प्रदोषाधिकरणकं भोजनम् ( पु० चि० पृ० ४५ )। नगरम्-प्राकारपरिखान्वितं श्रेणीधर्मसंयुक्तं संस्थानम् (कैयटः ७।३।१४)। नच-शङ्कानिवारणार्थः । यथा नच स्वतःसिद्धविघ्नविरहवता. कृतस्य
मङ्गलस्य निष्फलत्वापत्तिः इति वाच्यम् । इष्टापत्तः। विघ्नशङ्कया
तदाचरणात् ( मु० १ मङ्गल० ) इत्यादौ। नञ्तत्पुरुषः—( तत्पुरुषः ) नबर्थबोधकतया नञ्पदघटितः समासः ।
यथा अघटः पट इत्यादौ । अत्र घटपदं लक्षणया घटसंबन्ध्यर्थकम् । घटप्रतियोगिकम् इत्यर्थकम् इति यावत् । नब्पदं च अन्योन्याभावे शक्तमेव (न्या० म० ४ पृ० १४)। एवं च घटप्रतियोगिकभेदवान् पटः इति वाक्यार्थबोधः । अघटं भूतलमित्यादौ नबो घटभिन्ने लक्षणा। न
कलशं भक्षयेदित्यादौ बलवदनिष्टजनके लक्षणा ( तर्का० ४ पृ०१२ )। नतिः-१ नमस्कारः (ग० व्यु० कार० ४ पृ० १०१ ) । २ चन्द्रार्क
कक्षयोर्याम्योत्तरयोरन्तरं नतिः इति ज्योतिर्विद आहुः । ३ ऊर्ध्वस्थित
स्याधः पतनं नतिः इति काव्यज्ञा वदन्ति ( वाच० )। ननु-१ प्रश्नः । यथा ननु गमिष्ये इत्यादौ । २ अवधारणम् । यथा
उपपन्नं ननु शिवम् (रघु० ११६० )। अत्र उपपन्नमेवेत्यर्थः (टी. मल्लिनाथः १।६० )। यथा वा त्वया नियम्या ननु दिव्यचक्षुषा (रघु० स० ३ श्लो० ४५) इत्यादौ। ३ आमत्रगम् ( संबोधनम् ) । यथा ननु मां प्रापय पत्युरन्तिकम् ( कुमार० ४।३२) इत्यादौ । ननु हे वसन्त इत्यर्थः ( टी० मल्लिनाथः ४।३२ )। ४ आक्षेपः (शङ्का)। यथा नन्वेवं धनाद्यर्जनस्य कुञ्जरशौचवत् दुःखानिवर्तकत्वे कथं तत्र प्रवृत्तिस्तत्राह ( सांख्य० प्र० भा० अ० १ सू० २-३) इत्यादौ (वाच०)। ५ अनुज्ञा । यथा ननु गच्छेत्यादौ । ६ अनुनयः ( सान्त्वनम् )। यथा ननु कोपं मुश्च दयां कुरु इत्यादौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org