________________
न्यायकोशः। २ उपमा । यथा तिष्टा देवो न सविता ( श्रुतिः ) वयो न वसतीरुप (ऋ० सं० १।२५ ) इत्यादौ । ३ नकारस्वरूपो वर्णः । यथा दो धः सौख्यं मुदं नः ( बृ० व० टी० ) इत्यादौ (वाच० )। अत्र केचित अत्यन्ताभाव एव नमः शक्तिः । अन्योन्याभावादौ तु लक्षणा इत्याहुः ( शा० भा० ) ( वाच० ) । अत्रेदमवधेयम् । न घटः पट इत्यादौ नामार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इति व्युत्पत्तिविरोधापत्तिवारणाय अघटः पट इत्यादौ समानविभक्तिकत्वेनाभेदान्वयबोधोपपत्तये च नबोभाववति लक्षणा घटपदस्य च घटप्रतियोगिके लक्षणा स्वीकार्या इति केचित् । परे तु नामार्थयोः इति व्युत्पत्तौ अव्यय निपात एतदतिरिक्तेति नाम्नि विशेषणान्नञः अभाववति घटपदस्य घटप्रतियोगिके च न लक्षणाङ्गीकार्या । किंतु नबः संसर्गाभावमात्रे अन्योन्याभावमात्रे च शक्तिरेव इति प्राहुः (न्या० म० ४ पृ० १४-१५) (त० प्र० ख०४ पृ० ६०-६१ ) । अन्ये तु नामार्थयोः इति व्युत्पत्ति भ्युपगन्तव्या । भूतलं घटः राजा पुरुषः इत्यत्र आधेयतासंबन्धेन स्वत्वसंबन्धेन च घटपुरुषपदार्थयोभूतलराजपदार्थान्वयबोधतात्पर्येण तादृशप्रयोगापन्तिवारणाय यथाक्रमं सप्तम्यन्तभूतलादिसमभिव्याहारषष्ठयन्तराजादिपदसमभिव्याहारयोः पूर्वोक्तान्वयबोधं प्रति कारणत्वमङ्गीकर्तव्यम् । एवं च पूर्वोक्तस्थलयोः न घटः पटः अघटः पटः इत्याद्योः नञ्पदादौम लक्षणा इत्याहुः ( ग० व्यु० का० १)। अन्यत्र च नबर्थाः षडुक्ताः । सादृश्यं तदभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः ॥ इति । अत्र यथाक्रममुदाहरणानि । यथा अनिक्षुः शर इत्यादौ सादृश्यं नमः । भूतले घटो नास्तीत्यादावत्यन्ताभावः । अघटः पट इत्यादावन्यत्वम् । अनुदरमुदरं तरुण्या इत्यादौ स्वल्पत्वम् । अब्राह्मणो वाधुषिक इत्यादावपकृष्टत्वम् ( अप्राशस्त्यम् ) । असुरो दैत्य इत्यादी विरोधः ( श० प्र० श्लो० ३९ पृ० ५०.)। अन्यत्र चोक्तम् नयभावे निषेधेन स्वरूपार्थेप्यतिक्रमे। ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः ॥ इति । निषेधेन काका स्वरूपार्थे प्रकृतार्थे इत्यर्थः । एता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org