________________
३९८
न्यायकोशः। शारदातिलके च तस्य ध्वनेरुत्पत्त्यादिप्रकारादिकमुक्तम् । यथा सां प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः । शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका ॥ ततोर्धेन्दुस्ततो बिन्दुस्तस्मादासीत्परा ततः। पश्यन्ती मध्यमा वाचां वैखरी ज्ञानजन्मभूः ॥ ( शारदाति० ) इति । अत्रायं विशेषः । अनेकवर्णात्मकस्य कलशादिपदस्य श्रावणप्रत्यक्षं न संभवति । आशुविनाशिनां ऋमिकाणां वर्णानां मेलकाभावेन तन्मेलनात्मनः पदस्य ग्रहीतुमशक्यत्वात् । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितेनानुभूयमानचरमवर्णेन श्रोत्रे व्यञ्जनाख्यो व्यापारः ( शाब्दिकादिमतेन ) जन्यते । तेनैव व्यापारेण नष्टवर्णघटितमपि पदं ( वैयाकरणमते स्फोटपरिभाषितं पदम् ) श्रोत्रेण साक्षात्क्रियते इति । चरमवर्णात्मनि शब्दे ध्वनिव्यवहारः इति महेश्वरः ( वाच० )। २ उत्तमं काव्यं ध्वनिः इत्यालंकारिका आहुः ( प्रतापरुदे० प्र० २ )। अत्रोक्तं मम्मटभट्टेन इदमुत्तममतिशयिनि • व्यङ्गथे वाच्याद् ध्वनिर्बुधैः कथितः (काव्यप्र० उ० १ श्लो० ५) इति ।
न-१ अभावः (न्या० म० ४ पृ० १४ ) । स च संसर्गाभाव - अन्योन्याभाव एतदन्यतरात्मकः ( तर्का० ४ पृ० १२)। यथा . भूतले घटो नास्ति ( दीधि० ) घटः पटो न भवति इत्यादौ । यथा ... वा नैकः सुप्तेषु जागृयात् इत्यादौ निषेधः । भूतल इत्यत्र सप्तम्या - वृत्तित्वमर्थः । तस्य च नर्थात्यन्ताभावेन्वयः । एवं च भूतलवृत्ति
र्घटत्वावच्छिन्नप्रतियोगिताकोत्यन्ताभावः इति बोधः । केचित्तु भूतलवृत्तिर्योत्यन्ताभावः तत्प्रतियोगी घटः इति बोधः इत्याहुः । अन्ये तु
सप्तम्या निरूपितत्वम् असधातोर्विद्यमानत्वम् आख्यातस्याश्रयत्वम् अर्थः । . तथा च भूतलनिरूपितविद्यमानत्वाश्रयो घटाभावः इति बोधः इत्याहुः . (त० प्र० ४ पृ० ६१ ) (ग० व्यु० १ ) ( न्या० म० ४ १ पृ० १५) । घटः पटो नेत्यत्र घटः पटभेदवान् भवति इति बोधः । । नार्थो द्विविधः प्रसज्यप्रतिषेधः पर्युदासश्चेति ( म० प्र० पृ० ४८)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org