________________
३९७
न्यायकोशः । [ग] उत्पत्तेरनन्तरं समवायिकारणे कार्यस्य संसर्गाभावः (त० कौ० पृ० २१ )। तदर्थश्च यथा इह कपाले घटो ध्वस्तः इत्यादी उत्पत्तेरनन्तरम् (प्रतियोगिभूतस्य घटादेस्त्पत्तेरनन्तरम् ) जन्यः समवायिकारणे (घटस्य समवायिकारणे कपाले ) वर्तमानः कार्यस्य (घटादेः ) संसर्गाभावः ( तदाख्यः अभावः ) इति । अत्रायं नियमः ध्वंसप्रागभावौ स्वप्रतियोगिसमवायिदेशे वर्तेते इति । यथा इह कपाले घटो ध्वस्तः इति प्रतीतिसाक्षिकः अभावः (प्र० प्र० पृ० २३ )। यथा वा तदप्यध्वंसदासाद्य माहेन्द्रं लक्ष्मणेरितम् इत्यत्र प्राणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते ( भट्टिः) इत्यादौ च । अत्र वैयाकरणाः ध्वंसस्यातीतत्वाभावेपि फलव्यापारयोर्धात्वर्थत्वेन तदुत्पत्त्यनुकूलव्यापारस्य कारणविशेषसंयोगस्यातीतत्वात् ध्वस्तः इति व्यवहार उपपद्यते इत्याहुः । नैयायिकमते नाशमात्रस्यैव धात्वर्थत्वेपि तदुत्पत्तौ लक्षणा । तस्याश्चातीतत्वादिनैव ध्वस्तः ध्वंसते इत्यादिप्रयोगः। अत्र कर्तृत्वं प्रतियोगिस्वम् । तच्च नाशान्वयि इति । तथा च वर्तमानाद्युत्पत्तिकनाशप्रतियोगी घटः इत्यन्वयबोधः ( वाच० )। अतीतावस्था ध्वंसः इति सांख्या आहुः । तिरोभावावस्था इति शाब्दिकाः सांख्याश्चाहुः ( ल० म०)। अत्र सूत्रम् नाशः कारणालयः इति (सांख्य० अ० १ सू० १२१)। कारणे लय
इत्यर्थः । आत्यन्तिकनाशश्व कारणेन सह नाश इति भेदः ( वाच०)। ध्वनिः—(शब्दः) १ तारत्वादिधीहेतुः शब्दविशेषः । यथा उन्मदध्वनि
भृता निभृताक्षरमुजगे (माघ० स०६ श्लो० २०) इत्यादौ । अत्रोच्यते। ध्वनि म यो दूरादाकर्णयतो वर्णविशेषमनधिगच्छतः कर्णपथमवतरति प्रत्यासीदतश्च तारत्वादिविशेषमवगमयति इति (शारीर० ) ( वाच०)। स च ध्वनिर्वैयाकरणमते द्विविधः। प्राकृतः वैकृतश्चेति । अत्रोक्तम् भर्तृहरिणा स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते । स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥ ( वाक्यप० ) इति । अत्र विवेकः । स्फोटस्याभिव्यक्ती प्राकृतस्य ध्वनेः कारणत्वम्। चिरचिरतरकालस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेः कारणत्वम् इति ( शब्दार्थरत्ने) (वाच? )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org