________________
न्यायकोशः।
३९५ " नासाग्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृतिके बाह्ये वा देशे
चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा (सर्व० सं० पृ० ३८२ • पातञ्ज०)। ४ धारणा मनसो ध्येये संस्थितिानवहिधा (अमिपु०
अ० ३७४) इति पौराणिका आहुः। ५ जलसूचको वायुविशेषधारणा... द्यात्मको योगभेदः इति ज्योतिषज्ञा आहुः ( बृ० सं० अ० २२)। धारणिकः-अधमर्णः । धूमः-१ साइँन्धनवह्निजातः मेघाञ्जनयोजनको द्रव्यविशेषः । यथा । पर्वतत्वेन पक्षत्वे वह्नित्वेन साध्यत्वे विशिष्टधूमत्वेन च हेतुत्वे पर्वतो
वह्निमान् विशिष्टधूमात् इत्यादौ पर्वतादेः काञ्चनमयत्वविरहो न दोषः
( दीधि० २ पृ० १७९) इत्यत्र । अत्र विशिष्टधूमश्च वह्निशून्य- देशान्तरवृत्तिधूमव्यक्तिव्यावर्तकविशेषणावच्छिन्नो धूमः । तादृशविशेषणं
तु वह्निमद्वृत्तित्वादि ज्ञेयम् । यथा वा अभ्रंलिहां धूमलेखां पश्यति (मु० २) सधूमदीप्ताग्निस्चीनि रेजुः ( भट्टिः) इत्यादौ च धूमः । २. अग्निमान्द्यसूचको वायुविशेषः ( ढेकर ) इति भिषजो वदन्ति ।
३ ज्योतिर्विदस्तु धूमकेतुः इत्याहुः। ४ उल्कापातश्चेति काव्यज्ञा - वदन्ति ( वाच० )। धृतिः-१ गुरुत्ववतां पतनाभावः (कु० ५।१ टी० हरिदासः) . (दि० १११ पृ० १९)। यथा कार्यायोजनधृत्यादेः पदात्प्रत्ययतः
श्रुतेः ( कु० ५।१ ) इत्यादौ । २ अष्टादशाक्षरपादकच्छन्दोमात्रम् इति वृत्तशास्त्रज्ञा वदन्ति । ३ व्यभिचारिभावविशेषः इत्यालंकारिका आहुः ।
अत्रोच्यते ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास-- संहासप्रतिभादिकृत् ॥ इति । ४ मौहूर्तिकास्तु विष्कम्भाद्यन्यतमयोग- विशेषः इत्याहुः । ५ गणकाश्च अष्टादशसंख्यायुक्तम् द्रव्यादि इत्याहुः । -- ६ गौर्यादिषोडशान्यतममातृकाविशेषः इति संस्कारकुलाचारज्ञा आहुः । . ७ मानसधारणाविशेषः इति योगशास्त्रज्ञा आहुः । ८ धैर्यम् इति
काव्यज्ञा आहुः ( वाच० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org