SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९४ न्यायकोशः। - श्चेति । तत्र नामप्रकृतिकः क्यच क्यङ् इत्यादिः। धातुप्रकृतिकस्तु - सन् यङ् इत्यादिः ( श० प्र०. श्लो० १०७ पृ० १६४ )। धारणम्-१ [क] द्रव्यान्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्या दृष्टविशेषवत्त्वम् । यथा विप्राय शतं धारयतीत्यादौ धात्वर्थः । अत्रायं 'भावः । ऋणग्रहणेनाधमर्णनिष्ठः परिशोधननाश्योदृष्टविशेषो जन्यते । तेनैवादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकम् इति । अत्र धारेरुत्तमर्णः ( पा० सू० १।४।३५ ) इत्यनेन धनिकविप्रादेः संप्रदानता । तथा कर्तृत्वं चतुर्थ्यर्थः। तस्य धात्वर्थघटकादानेन्वयः (ग० व्यु० का० ४ पृ० ९६-९७)। [ख] केचित्तु पुननिमङ्गीकृत्य द्रव्यग्रहणम् इत्याहुः ( का० व्या० पृ० ९)। [ग] पाणिनीयास्तु ऋणग्रहणम् । यथा गुरवे गां धारयते इत्यादौ धारेरथः इत्याहुः । अत्र दत्तत्वं चतुर्थ्यर्थः । तथा च गुरुदत्तां गामृणत्वेन गृह्णाति इत्याकारस्तत्र वाक्यार्थः ( श० प्र० श्लो० ६९ पृ० ८६ )। २ गृहावस्थितिः । यथा गुरवे गां धारयते इत्यादौ इति कालापाः । अत्र धृङा गृहावस्थितिः द्वितीयया तदन्वितं कर्तृत्वम् चतुर्था च तन्निविष्टगृहान्वितं संबन्धित्वम् उपस्थाप्यते। तेन गोकर्तृकाया गुरुसंबन्धिगृहावस्थितेरनुकूलव्यापारवान् इत्याकारको बोधः । धातूत्तरणिचा व्यापारबोधनात् इति भावः (श०प्र० श्लो० ६९ पृ० ८६)। शाब्दिका अपि अवस्थितिः भक्ताय धारयति मोक्षं हरिरित्यादौ धारेरर्थः इत्याहुः। अत्र धृङ् अवस्थाने इति धातोर्णिचावस्थानानुकूलव्यापारो धारेरर्थः । तदर्थावस्थित्याश्रयसंबन्धी संप्रदानम् । धारेरुत्तमर्णः इति सूत्रात् । तथा च हरिकर्तृको भक्तसंप्रदानको मोक्षकर्मकावस्थित्यनुकूलो व्यापारः इति बोधः ( ल० म० सुब० कार० ४ पृ० १०३ )। ३ प्राणस्य पूरकरेचककुम्भकैर्निरोधरूपश्चित्तवशीकरणं प्राणायामविशेषः ( सांख्यप्र० भा० अ० ३ सू० ३३ ) । यथा धारयेत्तत्र चात्मानं धारणां धारयन्बुधः (याज्ञ०) इत्यादौ इति सांख्या 'आहुः । देशबन्धश्चित्तस्य धारणा ( पात० सू० पाद ३ सू० १) इति योगिनो वदन्ति ( गौ० वृ० ४।२।४४ ) । नाभिचक्रहृदयपुण्डरीक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy