________________
न्यायकोश:। कर्मकत्वेन विलक्षणव्यापारमात्रे शक्तिः न तु तत्र फलस्यावच्छेदकत्वम् इति न पतेः सकर्मकत्वापत्तिः । अत एव फलानवच्छिन्नविलक्षणव्यापारवाचित्वम् धातोरकर्मकत्वम् । फलावच्छिन्नविलक्षणव्यापारवाचित्वम् सकर्मकत्वम् । तञ्च फलं यदोभयकर्मान्वितं तदा द्विकर्मकत्वम् । यथा
चैत्रोश्वं ग्रामं नयतीत्यादी नयत्यादेः । अश्वग्रामोभयनिष्ठसंयोगजनकनयनकर्ता इति बोधात् । अत्र ग्रामो मुख्यं कर्म । अश्वस्तु गौणम् । अकथितं च इत्यनुशासनात् (म० प्र० ४ पृ० ५६)(न्या० म० ४ पृ० २१) इत्येके । अत्र वैयाकरणा अप्याहुः । अवच्छिन्नपदस्य संबन्धपरत्वेन कर्मीभूतफलसंबन्धिव्यापारार्थकत्वस्य सुस्थत्वात् अकर्मकाणां फलार्थत्वानङ्गीकारेणातिव्यात्यव्याप्योरनवकाशः इति (वै० सा० द०) । फलावच्छिन्नविलक्षणव्यापारश्च । [क] धातूपनीतफलानुकूलसजातीयविजातीयव्यापारप्रचयः (त० प्र० ख० ४ पृ० ५०)। [ख] फलानुकूलत्वोपलक्षितविलक्षणव्यापारः (न्या० म० ४ पृ० २०)। इत्थं च उपलक्षितत्वविवक्षणेन कृष्णलं ( यवत्रयमितं सुवर्णम् ) अपयेदित्यत्रोष्णीकरणमात्रे धातोर्न लक्षणा । रूपादिपरावृत्त्यवच्छिन्नाधःसंतापनस्य श्रपणस्य बाधेपि तदुपलक्षिताधःसंतापनस्य तत्राबाधात् इत्यवधेयम् ( म०प्र० ४ पृ० ५६ )। [ग] शाब्दिकास्तु फलानुकूलो यत्नसहितः व्यापारः इत्याहुः (ल० म०)। अत एव गम्यादीनां
सकर्मकत्वमुपपद्यते। धात्वंशः-(प्रत्ययः ) [क.] सुवर्थानन्वितयादृशस्वार्थको यस्तिङन्यः
प्रत्ययः स · तादृशार्थे धात्वंशप्रत्ययः । यथा पुत्रीयतीत्यादौ क्यच् । पचतीत्यादौ सुबर्थानन्वितकृत्यर्थकोपि तिबादिर्न तिङन्यः इति न तत्रातिप्रसङ्गः । पुत्रीयतीत्यत्र क्यजाद्यर्थस्येच्छादेन सुबर्थन्वयः । किंतु तिङर्थे इति तत्र लक्षणसमन्वयो बोध्यः । ( श० प्र० श्लो० १०६ पृ० १६४)। [ख] धात्वन्तावयवरूपः प्रत्ययः । यथा सनादिप्रत्ययः पिपक्षादिधात्वन्तभागत्वाद्धात्वंशप्रत्ययो भवति (श० प्र० श्लो० १०६ पृ० १६४ ) । धात्वंशप्रत्ययो द्विविधः । नामप्रकृतिकः धातुप्रकृतिक५० न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org