SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। .. फलानवच्छिन्नव्यापारवाचकत्वमकर्मकत्वम् इति अकर्मकत्वस्य लक्षणं बोध्यम् । अकर्मकक्रियात्वे चत्वारो हेतवः हरिणा दर्शिताः । यथा धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोकर्मिका क्रिया ॥ इति । एवं च अकर्मकोपि धातुहेतुचतुष्टयाधीनाकर्मकक्रियार्थत्वाच्चतुर्विधः इत्यलं विस्तरेण ( वाच० )। धातोरर्थश्च मतविशेषेषु यथा ( १ ) फलमेव धातोरर्थः । तदनुकूलक्रिया त्वाख्यातेन कळदावनुभाव्यत इति मण्डनमिश्र आह ( श० प्र० श्लो० ९५ पृ० १४० ) । ( २ ) क्रियामात्रं ( केवलं व्यापारमात्रम् ) धात्वर्थः । - फलं तु कर्मप्रत्ययेन बोध्यते इति प्राश्चः रत्नकोशकृत्प्रभृतयः आहुः (चि० ४)। एतन्मते द्वितीयासाकाङ्क्षतुमन्तधातुत्वप्रयुक्त एव च धातूनां सकर्मकत्वव्यपदेशः । न तु फलावच्छिन्नक्रियावाचित्वप्रयुक्तः । ज्ञाप्रभृतावव्याप्तत्वात् इति ज्ञेयम् (श० प्र० श्लो० ७२ पृ० ९३ )। ( ३ ) फलं व्यापारश्चैतदुभयं धात्वर्थः इति शाब्दिका आहुः । अत्र फलत्वं च तद्धात्वर्थजन्यत्वप्रकारकप्रतीतिविषयत्वे सति तद्धातुजन्योपस्थितिविषयत्वम् तद्धात्वर्थत्वं वा । अत्र धात्वर्थव्यापारेतिप्रसङ्गनिरासाय सत्यन्तम् । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्यदलम् (वै० सा० द० धात्व. पृ० ८ ) । मञ्जूषाकृतस्तु कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वम् । अत्र जन्यता चारोपिता अनारोपिता चेत्यन्यत् । विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे विभागसंयोगयोः फलत्ववारणायोभयदलम् । कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यत्वम् इत्याहुः (वै० सा० द० धात्व० पृ० ८ )। तथाहि चैत्रो ग्रामं गच्छतीत्यादौ ग्रामनिष्ठसंयोगानुकूलव्यापारकर्ता चैत्रः इति बोधात् संयोगात्मकफलस्य व्यापारनिरूपितप्रकारत्वम् । चैत्रेण ग्रामो गम्यत इत्यादौ तु चैत्रसमवेतव्यापारजन्यसंयोगाश्रयो ग्रामः इति बोधात् संयोगस्य व्यापारनिरूपितविशेष्यत्वम् इति । अत्र व्यापारत्वं च पदान्तरसमभिव्याहाराप्रयोज्यसाध्वत्वप्रकारकप्रतीतिविषयत्वम् ( वै० सा० द० धात्वर्थ० पृ० ८)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy