________________
न्यायकोशः। शास्त्रज्ञाः तात्रिकाबाहुः । ५ आकाशादिमहाभूतानि इति पौराणिकाः । ६ इन्द्रियाणि रूपरसगन्धस्पर्शशब्दाश्च धातुशब्दवाच्या भवन्तीति शास्त्रान्तरविद आहुः ( वाच० )। ७ शब्दप्रकृतिः । [क] यः शब्दः स्वोत्तरतृचः शक्येर्थे स्वोपस्थाप्यस्य यादृशार्थस्यान्वयबोधं प्रति समर्थः स तादृशार्थे धातुरुच्यते । यथा वच पिपक्ष इत्यादयो धातवः । अत्र धातूनाम् अनेकार्थकत्वम् इति सर्वे सर्वार्थवाचकाः इति च शाब्दिकादीनां राद्धान्तोनुसंधेयः । अत्र अनेकार्थकत्वं च व्याकरणकोश इत्याद्यभियुक्तकृततत्तदर्थकत्वम् (त० प्र० ख० ४ पृ० ७०)। सर्वार्थवाचकत्वं च स्वप्रवृत्तिनिमित्तसमानाधिकरणकृत्स्नधर्माश्रयवाचकत्वम् । धातुलक्षणं च क्रियावाचित्वे सति भ्वादिगणपठितत्वम् ( ल० व०)। पचपिपक्षादयो हि शब्दाः पक्त पिपक्षित इत्यादिनामनिविष्टाः खोत्तरतृजथे कर्नादौ स्वोपस्थाप्यानां पचनपाकेच्छादीनामन्वयधियं प्रति प्रभवो भवन्तीति लक्षणसमन्वयोत्र बोध्यः (श० प्र० श्लो० ५५ पृ०७०)। [ख] यः शब्दः स्वान्ते कृचिन्तनं विना सुवर्थे यादृशस्य निजाथस्यान्वयधियं प्रत्यसमर्थः स एव तादृशार्थको धातुः । यथा पाकं कुरु संपदं पश्येत्यादौ । सुवर्थेपि धात्वर्थस्यान्वयवादिनां प्राचां मते नेदं धातुलक्षणम् इति ज्ञेयम् । अत्र हि पचादिको धातुः स्वोत्तरस्य भावकृतः घम् किप् इत्यादिप्रत्ययस्य प्रतिसंधानदशायामेव सुबर्थकर्मत्वादौ स्वार्थस्य पचनादेरन्वयबोधमाधत्ते न त्वन्यथेति लक्षणसमन्वयः ( श० प्र० श्लो० ५५ पृ० ७०)। धात्वर्थप्रकारकबोधं प्रति धातुप्रकृतिकप्रत्ययजन्योपस्थितेर्हेतुत्वात् । [ग] शाब्दिकास्तु क्रियावाचको भ्वादिगणपठितः शब्दविशेषः इत्याहुः। अत्र वा इत्याद्यव्ययानामपि गणपठितत्वेन धातुत्वापत्तिः । तद्वारणाय क्रियावाचित्वविशेषणम्। हिरुगाद्यव्ययानां क्रियावाचित्वेन धातुत्वापत्तिः। तद्वारणाय गणपठितत्वं विशेषणं दत्तम् ( वाच०)। [घ] माववचनो धातुः ( सर्व० सं० पृ० ३०५ पाणि० )। धातुत्रिविधः । मूलधातुः सौत्रः प्रत्ययान्तश्चेति । तत्र (१) गणपठितो धातुर्मूलधातुरुच्यते । यथा भूपचप्रभृतिः। अत्र सूत्रम् भूवादयो धातवः ( पा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org