________________
न्यायकोशः।
३८५ द्वैतवादः-जीवेश्वरादिभेदनिर्णायकः कथाविशेषः । यथा गौतमादिप्रणीतः कथारूपग्रन्थविशेषः । अत्र व्युत्पत्तिः । द्विधा इतं द्वीतम् । तस्य भावः द्वैतम् । स्वार्थे वा अण् । द्वैतमधिकृत्य वादो द्वैतवादः इति ( वाच० )। द्वैतवादे प्रमाणानि ॐ भेदव्यपदेशात् ॐ ॐ प्रकरणात् ॐ ॐ स्थित्यदनाभ्यां च ॐ ( ब्रह्मसूत्र० १।३।५-७ )। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम् । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (मु० ३।१।१ ) (तत्त्वप्रका० १।३।५-७ )। जन्मादिव्यवस्थातः पुरुषबहुत्वम् ( सां० सू० अ० १ सू० १४९ ) नाद्वैतश्रुतिविरोधो जातिपरत्वात् (सां० सू० अ० १ सू० १५४) इत्यादीनि ज्ञेयानि । सांख्यकारिकायामप्युक्तम् । जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैत्र ।। (सांख्यका० श्लो० १८) इति। अत्र द्वैतमतानि च सांख्ययोगन्यायतर्कपूर्वमीमांसोत्तरमीमांसादर्शनानि ज्ञेयानि । अत्रोत्तरमीमांसाशब्देन मध्वापरनामश्रीपूर्णप्रज्ञाचार्यप्रणीतं वेदान्तशास्त्रं ग्राह्यम् । शांकरमतमद्वैतम् रामानुजमतं विशिष्टाद्वैतम् वल्लभमतं तु शुद्धाद्वैतम् इति च ज्ञेयम्। द्वैतमतेषु जगतः सत्यत्वम् जीवेश्वरादिभेदपञ्चकम् परमात्मनः सर्वोत्तमत्वं स्वातव्यं च जीवानां तु बहुविधत्वं
सायुज्यादिमोक्षश्व प्रतिपाद्यते इति विज्ञेयम् । षड्दर्शनकर्तारश्च सांख्य: शास्त्रप्रणेता कपिलः योगशास्त्रप्रणेता पतञ्जलिः न्यायशास्त्रप्रणेता गौतमः
तर्कशास्त्रप्रणेता कणादः पूर्वमीमांसाशास्त्रप्रणेता जैमिनिः उत्तरमीमांसा
शास्त्रप्रणेता. श्रीसत्यवतीसुतो व्यासश्चेत्येते ज्ञेयाः। द्वयणुकम्- [क] परमाणुद्वयसंयोगेन यदुत्पद्यते तत् ( त० दी० १
पृ. ९) (त० कौ० १ पृ० ३)। यथा विषयो व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ( भा० प० श्लो० ३९) इत्यादौ व्यणुकम् । [ख] अणुर्ती परमाणू स्यात् इति बादरायणाचार्या आहुः (भाग०)।
[ग] नव्या नास्तिकास्तु संयुक्ताणुद्वयं व्यणुकम् इत्याहुः (प० मा०)। ... अत्र व्युत्पत्तिः द्वौ अणू कारणे यस्य तत् इति द्रष्टव्या । व्यणुकं तु जन्य
४९ न्या०को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org