________________
३८४
न्यायकोशः। एकस्यानेकार्थदर्शिनो दर्शनप्रतिसंधानाहुःखहेतौ द्वेषः इति भाष्यसंमतोर्थः ( वात्स्या० १।१।१०)। द्वेषश्च मनोग्राह्यः ( भा० ५० श्लो० ५८ ) जीवात्ममात्रवृत्तिश्च ( वात्स्या० ४।१।२ )। द्वेषलक्षणं च निवृत्तेः साक्षादनुकूलत्वम् । अत्र ज्ञानवारणाय साक्षात् इति पदम् ( वाक्य० गु० पृ० २१) । अथवा विघ्नोत्पादकज्ञानजन्यगुणत्वम् इति ( ल० व० गु० पृ० ३५ )। [ख] निवृत्तिलिङ्गः ( वात्स्या० ३।२।३७ )। स च प्रज्वलनात्मकः ( प्रशस्त० पृ० ३३ )। यथा इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषा व्यवस्थितौ ( गीता० ३।३४ ) इत्यादी द्वेषः। यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स चात्ममनसोः संयोगाद्दुःखापेक्षात् स्मृत्यपेक्षाद्वा उत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः । द्रोहः क्रोधः मन्युः अक्षमा अमर्षः इति द्वेषभेदाः (प्रशस्त० पृ० ३३ )। [ग] द्वेष्टि इत्यनुभवसिद्धद्वेषत्वसामान्यवान् प्रज्वलनात्मकः ( प्र० प्र० ) ( त० कौ० पृ० ८ ) ( सि० च० गु० पृ० ३५ )। [घ ] द्विष्टसाधनताज्ञानजन्यो गुणविशेषः (सि० च० गु०पृ० ३५ ) ( भा० ५० गु० श्लो० १४९ )। अत्रेदं ज्ञेयम् । दुःखोपायविषयकं द्वेषं प्रति बलवहिष्टसाधनताज्ञानं कारणम् । बलवदिष्टसाधनताज्ञानं च प्रतिबन्धकम् । तेन नान्तरीयकदुःखजनके पाकादौ न द्वेषः इति (मु० गु० पृ० २२२) । [ङ ] बलवदुःखसाधनताज्ञानजन्यः अप्रीतिजनकश्चित्तवृत्तिविशेषः । यथा औषधं द्वेष्टि इत्यादौ इति शाब्दिका आहुः ( ल० म०)। [च] दुःखानुशयो क्लेशविशेषः द्वेषः इति पातञ्जला आहुः । [छ ] दुःखज्ञस्य तदनुस्मृतिपुरःसरं तत्साधने निन्दा द्वेषः ( सर्व० सं० पृ० ३६३ पात०)। स च द्वेषः बुद्धिधर्म एव नात्मधर्म इति सांख्या आहुः । न्यायनये द्वेषो द्विविधः । दुःखविषयः तत्साधनविषयश्च । अत्र कार्यकारणभावो ज्ञेयः । दुःखद्वेषं प्रति दुःखज्ञानमात्रं कारणम । तथा दुःखसाधनद्वेषं प्रति दुःखसाधनताज्ञानं इदं दुःखसाधनम् इत्याकारकम् कारणम् इति (त० कौ० पृ० १८ )। सांख्यादिमते च द्वेषोष्टादशविधः ( वाच० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org