________________
न्यायकोशः ।
३८३
विषयत्वं द्वित्वमिति केचिदाहुः ( दि० १ ) | यथा समवायाभावौ द्वौ इति प्रतीतिविषयो द्वित्वम् । इदं च द्वित्वं स्वरूपसंबन्धेन पदार्थमात्रे तिष्ठति इति ज्ञेयम् । द्वित्वादिकं स्वरूपभेद एव नातिरिक्तम् इति भूषणमतम् (वै० उ० ७।२।१ ) ।
द्विधा - ( अव्ययम् ) प्रकारद्वयेन । यथा षड्जसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः ( रघु० स० १ श्लो० ३९ ) इत्यादौ । द्विराषाढ : – मलमास विशेषः । माधवाद्येषु षट्स्वेकमासि दर्शद्वयं यदा । द्विराषाढः स विज्ञेयः शेते कर्कटकेच्युतः ॥ ( पु० चि० पृ० ३० ) । द्विष्ठत्वम् [क] उभयनिरूपितवृत्तित्वम् । यथा संयोगविभागादीनां द्विष्ठत्वम् । [ख] स्थानद्वयवृत्तित्वम् । यथा द्विष्ठा स्तिथिक्षयाभ्यस्ताश्वान्द्रवासरभा जिताः (सू० सि० ) इत्यादौ इति ज्योतिःशास्त्रज्ञा आहुः । द्वीन्द्रियग्राह्यगुणत्वम् - [क] इन्द्रियत्वावान्तरत्वक्त्वचक्षुष्वैतदुभयधर्मावच्छिन्नजनकतानिरूपितजन्यताश्रयग्रहविषयगुणत्वम् । द्वीन्द्रियग्राह्यगुणाश्च संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् द्रवत्वम् वेगः स्नेहश्च ( भा० प० गु० श्लो० ९२-९३ ) ( दि० गु० पृ० १९३ ) । [ ख ] चक्षुस्त्वगुभयग्रहणयोग्यत्वम् ( दि० गु० पृ० १९३ ) । चक्षुस्त्वगुभयग्राह्य भावनावृत्त्यन्यधर्म समवायिगुणत्वम् इति तु निष्कर्ष: । अत्र संस्कारत्वादिकमादाय भावनायामतिव्याप्तिवारणाय भावनावृत्त्यन्येति । कर्मादावतिव्याप्तिवारणाय गुणत्वस्य निवेश: ( दि० गु० पृ० १९३ ) । [ग] चाक्षुषस्पार्शन निर्विकल्पकविषयगुणत्वव्याप्यजातिमत्त्वम् (प०मा० ) । [घ] बाह्यद्वीन्द्रियग्राह्यजातिमद्गुणत्वम् इति कश्चिद्वक्ति ( ल०व० ) ।
द्वेषः - ( गुणः ) [क] अमर्षलक्षणः दोषः ( वात्स्या० ४।१।३ ) यथा इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लिङ्गम ( गौ० १|१|१० ) इत्यादौ द्वेषः । यज्जातीयस्यार्थस्य संनिकर्षादुःखमात्मोपलब्धवान् तज्जातीयमेवार्थं पश्यन् हातुमिच्छति । सेयं हातुमिच्छा द्वेषः । एवम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org