________________
न्यायकोशः ।
द्रव्यावयवतीन्द्रियं च इति न्यायसिद्धान्तः । महादेवभट्टस्तु गवाक्षरन्ध्रे दृश्यमानानामेव द्र्यणुकत्वमिति द्व्यणुकं नातीन्द्रियम् इत्याह ( दि० १ पृथिवी० पृ० ६९ ) । अत्रायं विशेषः । गवाक्षरन्ध्रे दृश्यमानस्यैव द्व्यणुकस्य त्रसरेणुः इत्यपि व्यवहारः । द्व्यणुकार्थे त्रसरेणुः इति पदं केवलरूढमेव ( राम ० १ पृथि० पृ० ६९ ) । अतो न मनुस्मृतेः ( अ० ८ श्लो० १३२ ) विरोधः इति ।
ध
धमनी - स्थूलतरनाडी ( संगीतरत्नाकरे पृ० १९ ) ।
1
धर्मः – १ आधेयः पदार्थः । यथा द्रव्यं गुणवदित्यादौ गुणो धर्मः । यथा संदिग्धसाध्यधर्मत्वं पक्षत्वम् ( चि०२ पृ० ३३ ) इति पक्षलक्षणे पर्वत पक्षकवह्निसाध्यकस्थले वह्नयादिर्धर्मः । अत्र वृत्तिमत्त्वं धर्मस्य लक्षणम् । यत्र कुत्रचिद्वर्तते यत् तत्त्वम् इत्यर्थः । तेन घटत्वाकाशत्वादिषु वृत्तिमत्पदार्थेषु लक्षणसमन्वयः । २ ( गुणः ) [क] यतोभ्युदयनिःश्रेयससिद्धिः स धर्मः (वै० १|१| २ ) । स धर्मः निवृत्तिलक्षणः विधिरूपो बा (वै० उ० १।१।२ ) । [ख] सुखासाधारणकारणम् ( प्र० प्र० ) ( त० भा० गु० पृ० ३७ ) । स च विहितकर्मजन्यः अदृष्टविशेषः ( त० सं० ) । यथा धर्माधर्माश्रयोध्यक्षः ( भा० प० श्लो०५० ) धर्मः । [ग] शरीरेण प्रशस्तानि दानपरपरित्राणादीनि कर्माण्याचरति । वाचा हितसत्यादीनि । मनसा अजिघांसादीनि । सेयं पुण्यरूपा प्रवृत्तिर्धर्मः ( सर्व० सं० पृ० २४६ अक्ष० ) । स च जीवमात्रसमवेतः वासनया जन्यते भोगतत्त्वज्ञानादिना नश्यतीति ज्ञेयम् ( सि० च० ) । धर्मस्तु न प्रत्यक्षः । किं त्वनुमानगम्यः । तच्चानुमानम् देवदत्तस्य शरीरादिकं देवदत्तस्य विशेषगुणजन्यम् कार्यत्वे सति देवदत्तस्य भोग हेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुवत् इति । यस्तु शरीरादिजनक आत्मविशेषगुणः स एव धर्मः । प्रयत्नादीनां शरीराद्यजनकत्वात् इति ज्ञेयम् (त० भा० गु० पृ० ३७ ) । ३ वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्मः इति मीमांसकाः (लौ० भा० पृ० ३ ) । वेदेन
३८६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org