________________
न्यायकोशः ।
[ख] परिषदा विज्ञातस्य वादिना त्रिरभिहितस्याप्यविज्ञानम् । इदं च किं वदसि - बुध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति ( गौ० १० वृ० ५। ६० ) । अत्र अविज्ञानमित्यस्यार्थस्तु वाक्यार्थस्याबोध इति । ( नील० )
अणुः - भोक्तुमशक्या अणत्रः । ( सर्वद० पृ० ७२ आर्हत० ) अणुत्वम् — परिमाणविशेषः । स च परमाणौ द्व्यणुकेच तिष्ठति । अतद्गुणसंविज्ञानः – ( बहुव्रीहिसमासः ) [क] यो बहुव्रीहिः स्वार्थस्यान्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधनेऽसमर्थः स इति प्राचीना आहुः । यथा दृष्टसागरमानय चित्रगुमानयेत्यादौ च । ( श० प्र० ) [ख] यत्र स्वार्थस्योपलक्षणतया विधेयान्वयः सः । यथा - चित्रगुरित्यादौ । ( ० प्र० ख० ४ पृ० ४९ )
अतद्व्यावृत्तिः – तद्भिन्ननिवर्तनम् । यथा - योगाचारबौद्धमते- नीलत्वादिरूपो धर्मः अनीलव्यावृत्तिरूप इति ( दि० १ आत्म० पृ० १०० ) । शिष्टं तु अपोह - शब्दव्याख्याने दृश्यम् ।
अतलम् —ष्ट्यधिकशतत्रयम् । तथा हि गणकप्रसिद्ध्या कटपयाः वर्गाः । तत्र वर्णाक्षरसंख्यया संग्रहः । गणकप्रसिद्ध्याकारः शून्यवचनः । टकाराषष्ठेन तकारेण षट् संख्या । यवर्गतृतीयेन लकारेण त्रित्वसंख्या । तत्राङ्कानां वामतो गतिरिति पूर्वोक्तप्रकारेण मेलने अतलशब्दः षष्टयधिकशतत्रयसंख्यामाह । ( पु० चि० पृ० १० ) अतिक्रान्तभावनीयः — योगिविशेषः । ( सर्वद० पृ० ३८४ पातञ्जल०) अतिदेशः – [क] एकत्र श्रुतस्यान्यत्र संबन्धः । यथा स्तोकं पचति मृदु पचतीत्यादी स्तोकमृद्वादौ क्रियाविशेषणानां कर्मत्वमित्याद्यनुशासनेन कर्मत्वातिदेशः ( ग० व्यु ० १ ) । यथा वा व्याकरणे स्थानिवदिति सूत्रेण भव्यमित्यत्र भू इत्येतस्मिन्नस्वृत्तिधातुत्वातिदेशः ।
-
१ अत्र दृष्टसागरमानय चित्रगुमानयेत्यादौ च गुणीभूतसमुद्रगवादीनामानयनेन्वयासंभवेनातद्गुणसंविज्ञानोयं बहुव्रीहिरिति । २ स चातिदेशः षोढा - शास्त्रातिदेशः कार्यातिदेशः निमित्तातिदेशः व्यपदेशातिदेशः तादात्म्यातिदेशः रूपातिदेशश्चेति । उदाहरणानि शब्दकौस्तुभे स्थानिवत्सूत्रे द्र० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org