________________
न्यायकोशः ।
[घ] स्वार्थापरित्यागेन परार्थ लक्षणा ।
[ङ ] यत्र स्वार्थस्य विशेष्यतया क्रियान्वये प्रवेशः सा । ( त० प्र० ख० ४ पृ० ४४ )
1
1
२ (शक्ति) अवयवार्थ संवलित समुदायार्थबोधकत्वम जहत्स्वार्थत्वम् । उदाहरणं राजपुरुष इति (ल० म० पृ० ३७ ) इति वैयाकरणाः | अत्रेदं बोध्यम् । वैयाकरणमते वृत्तिर्द्विधा शक्तिर्व्यञ्जना च । शक्तिश्च द्विधा प्रसिद्धाप्रसिद्धा च । प्रसिद्धा च त्रिधा रूढिः योगो योगरूढिश्व 1 आद्योदाहरणानि - घटः पटः मणिः रथंतरम् (साम) शुश्रूषा (सेवा) । इयमेव जहत्स्वार्थेत्युच्यते । द्वितीयोदाहरणानि पाचकः पाठक इत्यादीनि । तृतीयोदाहरणानि पङ्कजम् राजपुरुष इत्यादीनि । इयमेवाजहत्स्वार्थेत्युच्यते । क्वचिच्च तात्पर्यग्राहकवशात्केवलरूढ्यर्थस्य केवलयोगार्थस्य बोधः । यथाअश्वगन्धादिपदमोषधिविशेषे रूढम् अश्वसंबन्धिगन्धवत्तया वाजिशालाबोधे यौगिकम् । अत एव यौगिकरूढमित्युच्यते । अप्रसिद्धा शक्तिरेव नैयायिकादिभिर्लक्षणेति व्यवह्रियते । एवं च वैयाकरणमते शक्त्यपेक्षया लक्षणावृत्तिः पृथङ्नास्त्येव । व्यञ्जना च द्विधा गूढव्यङ्गयागूढव्यङ्गया च । अजहल्लक्षणा — नैयायिकमते जहत्स्वार्थावदस्यार्थोनुसंधेयः । अजीवः — अबोधात्मकं सर्वं वस्तु । ( सर्वद० पृ० ६७ आईत० ) अज्ञानम् - १ ज्ञानाभावः । २ अविद्या । तत्रोक्तम् - अनादि भावरूपं यद्विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षत इति मायावादिवेदान्तिनो वदन्ति । ( सर्वद० पृ० ९३ )
I
:
अज्ञानम् - ( निग्रहस्थानम् ) [ क ] अविज्ञानं चाज्ञानम् ( गौ०५।२।१८ ) । विज्ञातार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निग्रहस्थानमिति । अयं खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति । ( वात्स्या० ५।२।१८ )
१ अत्राज्ञाने भावत्वसाधकं प्रमाणमनुमानम् । तच्च विवादास्पदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वादन्धकारे प्रथमोत्पन्न प्रदीप प्रभावदिति ( सर्वद० पृ० ९६ ) । एतत्पदकृत्यं तु तत्रव टीकायां द्रष्टव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org