________________
३८१
न्यायकोशः। द्वित्वम्- [क] संख्याविशेषः । इदं द्वित्वं च समवायेन द्रव्यद्वये
प्रत्येकं तिष्ठति इति ज्ञेयम् । यथा द्वौ घटावानयेत्यादौ द्वित्वम् । [ख ] अपेक्षाबुद्धिजन्यो गुणविशेषः । यथा अयमेकः अयमेकः इति बुद्ध्यनन्तरम् इमौ इति व्यवहारविषयो द्वित्वम् । इदं द्वित्वं तु व्यासज्यवृत्ति पर्याप्तिसंबन्धेन द्वयोरेव द्रव्ययोस्तिष्ठति न प्रत्येकम् । इदमेव द्वित्वम् इमो द्वौ इति व्यवहारविषयः इति च विज्ञेयम् (सर्व० सं० पृ० २२१ औलू० )। एवम् त्रित्वचतुष्ट्वाधारभ्य परार्धत्वपर्यन्तं ज्ञेयम् । मीमांसकास्तु द्वित्वादीनामपेक्षाबुद्धिजन्यत्वं न स्वीकुर्वन्ति इत्यन्यत् । वस्तुतस्तु द्वित्वमपेक्षाबुद्ध्या जन्यते तन्नाशेन च नश्यति । क्वचिदाश्रयनाशादपि नश्यति ( प्रशस्त० पृ० १३ ) ( मु० गु० )। द्वित्वादेरपेक्षाबुद्धिजन्यत्वे प्रमाणमाहुराचार्याः अपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका भवितुमर्हति व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानत्वात् शब्दं प्रति संयोगवत् इति । द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्गयं न भवति अनेकाश्रितगुणत्वात् पृथक्त्वादिवत् इति सायणाचार्याः (सर्व० सं० पृ० २२२ औलू० )। इदानीं द्वित्वोत्पत्तिप्रकाराः प्रदयन्ते । ( १ ) यदा बोद्धुश्चक्षुषा समानासमानजातीययोर्द्रव्ययोः संनिकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्तावेकत्वसामान्यतत्संबन्धज्ञानेभ्य एकगुणयोरनेकविषयिण्येकबुद्धिरुत्पद्यते तदा तामपेक्ष्यैकत्वाभ्यां स्वाश्रययोर्द्वित्वमारभ्यते । ततः पुनस्तस्मिन् द्वित्वसामान्ये ज्ञानमुत्पद्यते । तस्माद्वित्वसामान्यज्ञानादपेक्षाबुद्धिविनश्यति। द्वित्वसामान्यतत्संबन्धज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पद्यमानता इत्येकः कालः (प्रशस्त० पृ० १३ )। (२) प्रथममिन्द्रियार्थसंनिकर्षः। तस्मादेकत्वसामान्यज्ञानम् । ततोपेक्षाबुद्धिः । ततो द्वित्वोत्पत्तिः । ततो द्वित्वसामान्यज्ञानम्। नस्माद्वित्वगुणज्ञानम् । ततः संस्कारः ( सर्व० सं० पृ० २२१ औलू०) । (३) उत्पत्स्यमानद्वित्वाधारणेन्द्रियसंनिकर्षः । तत एकत्वगुणगतसामान्यज्ञानम्। तत एकत्वसामान्यविशिष्टैकत्वगुणसमूहालम्बनरूपापेक्षाबुद्धिः। ततो द्वित्वगुणोत्पत्तिः । ततस्तद्गतसामान्यस्य ज्ञानम् । ततस्तसामान्यविशिष्टद्वित्वगुणज्ञानम् । ततो द्वित्वगुणविशिष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org