________________
न्यायकोशः। . द्वितीयया बोध्यते । तत्स्वीकारे तु क्रियाविशेषणपदोत्तरद्वितीया विशेषणविभक्तिवत्प्रयोगसाधुत्वायैवेति ज्ञेयम् ( का० व्या० पृ० ७ )। ५ अधिकरणत्वम् । यथा मासमधीते चैत्र इत्यादौ द्वितीयार्थः । अत्र कालाध्वनोरत्यन्तसंयोगे (पा० सू० २।११५ ) इत्यनेन द्वितीया ज्ञेया। ६ अन्ये तु व्यापकत्वम् । यथा मासं रमणीया क्रोशं कुटिला नदीत्यादौ द्वितीयार्थः इत्याहुः । अत्र अत्यन्तसंयोगोभिव्याप्तिः । अभिव्यात्यन्तर्भावेन मासस्य कर्मत्वम् । द्वितीयायाः साधुत्वनिर्वाहकत्वमेवेति । अत्रोक्तम् कालभावाध्वदेशानामन्तभूतक्रियान्तरैः । सर्वैरकर्मकोंगे कर्मत्वमुपजायते ॥ इति (ग० व्यु०. का० २ ख० २ पृ० ६८ )। ७ केचित्तु अभिव्याप्तिः । यथा मासं सुप्यते क्रोशं गम्यते इत्यादौ द्वितीयार्थ इत्याहुः । ८ प्रतियोगित्वम् अनुयोगित्वं वा। यथा दण्डं विना न घट उत्पद्यते रासभं विनापि घट उत्पद्यते इत्यादौ द्वितीयार्थः । यथा वा आरभ्य तस्यां दशमी तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम् इत्यादी प्रतियोगित्वम् अनुयोगित्वं वा द्वितीयार्थः । ९ अवधित्वम् अवधिमत्त्वं वा । यथा काशीतः कौशिकी यावद्यातीत्यादौ द्वितीयार्थः । १० आधेयत्वम् । यथा यज्ञमनु प्रावर्षदित्यादौ द्वितीयार्थः । अत्रार्थे कारकत्वरूपं हेतुत्वम् अनुशब्दार्थः। अनुलक्षणे (पा० सू० १।४।८४ ) इत्यत्र कर्मप्रवचनीयसंज्ञाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्र च यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्यान्वयः। हेतुतायाश्च निरूपकत्वसंबन्धेन वृष्टावन्वयः ( ग० व्यु० का २ ख० २ पृ० ७६ )। ११ निरूपितत्वम् । यथा उक्तोदाहरणे एव यज्ञमनुप्रावर्षदित्यत्र । अत्रार्थे जन्यत्वमनुशब्दार्थः । तत्र निरूपितत्वरूपद्वितीयार्थस्य यज्ञाद्यन्वितस्यान्वयः । जन्यतायाश्वाश्रयत्वसंबन्धेन वृष्टावन्वयः। यथा वा त्वां च मां चान्तरेणेत्यादौ द्वितीयार्थो निरूपितत्वम् । अत्र अन्तरान्तरेण युक्ते (पा० सू० २।३।४ ) इत्यनेन द्वितीया। तथा च द्वितीयार्थनिरूपितत्वस्यान्तरापदार्थतावच्छेदकमध्यत्वेन्वयः (ग० व्यु० का० २ ख० २ पृ० ७७ ) । एवमन्यत्रापि द्वितीयार्थ उक्तदिशा स्वयं परिच्छेद्यः (ग० व्यु० कारक० २ खण्ड ० . १-२ पृ० ३६-७७)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org