________________
३७६
न्यायकोशः। फलम् परसमवेतत्वं च द्वितीयार्थः इति प्राञ्चो नैयायिका आहुः । " अत्रायं भावः । कर्मत्वं च क्रियाजन्यफलशालित्वम् । तत्र क्रिया । व्यापारमात्रम् धातुत एव लभ्यते । फलान्वयि वृत्तित्वम् जन्यजनक--. भावसंबन्धश्च ( पदार्थत्वं विना) संबन्धमर्यादया भासते इति फल
मात्रं संयोगविभागादि कर्मप्रत्ययार्थः इति प्राच्यां नैयायिकानां मतम् । - एतन्मते धातोर्व्यापारमात्रार्थकत्वम् इति बोध्यम् ( ग० व्यु० का० २ - पृ० ३६ ) ( का० व्या० ) । अत्र परसमवेतत्वमपि. द्वितीयार्थो वक्तव्यः । प्राचीनमते शाब्दबोधस्तु वृत्तित्वसंबन्धेन ग्रामविशिष्टो यः संयोगः जनकतासंबन्धेन तादृशसंयोगविशिष्टो यो व्यापारः (धातुलभ्यः) तद्विषयिणी या कृतिः ( आख्यातलभ्या) तद्वान् इत्युत्पद्यते । नव्यास्तु वृत्तिरेव द्वितीयार्थः । यथा ग्रामं गच्छतीत्यादौ धात्वर्थफलान्वयि वृत्तित्वं द्वितीयार्थः । अयं भावः । नव्यमते धात्वर्थतावच्छेदकफलशालित्वमेव कर्मत्वम् । तत्र फलावच्छिन्नव्यापारो धातुत एव लभ्यते । तदेकदेशे फले द्वितीयार्थवृत्तित्वमन्वेति । एवं च स्पन्द्यादेर्न सकर्मकत्वम् । तत्र फलस्य धात्वर्थतानवच्छेदकत्वात् इति (ग० व्यु० का० २ पृ० ३८)। नव्यमते यत्र समभिव्याहृतधात्वर्थतावच्छेदकफलाश्रयत्वबोधः तत्र द्वितीया इति व्युत्पत्तिः । तेन भूमौ पततीत्यादौ पतधातोरकर्मकतया धात्वर्थतावच्छेदकफलाभावेन ( सप्तम्या आश्रयत्वबोधेपि ) न द्वितीया ( त० प्र० ख० ४ पृ० ८४ )। अत्रेदमवधेयम् । नव्यमते च यत्राश्रयत्वं कर्तृत्वम् तत्राधेयत्वं द्वितीयार्थः । यत्रानुकूलकृतिमत्त्वम् कर्तृत्वम् तत्र कृतिजन्यत्वम् द्वितीयार्थः । यत्र प्रतियोगित्वम् तत्रानुयोगित्वम् । तेषां चाश्रयतासंबन्धेनैवान्वयः ( ग० व्यु० का० २ पृ० ४७ )। नव्यानां मतेत्रायं बोधः निरूपितसंबन्धेन ग्रामविशिष्टं यद्वृत्तित्वम् ( आधेयत्वम् ) तद्वान् यः संयोगस्तदवच्छिन्नव्यापारानुकूलकृतिमान् इत्युत्पद्यते । अत्र कर्तुरीप्सिततमं कर्म (पा० सू० १।४।४९) इत्यनेन कर्मसंज्ञा कर्मणि द्वितीया (पा० सू० २।३।२ ) इत्यनेन द्वितीया च ज्ञेया। यथा वा गां पयो दोग्धि मैत्र इत्यादौ पयःपदोत्तरद्वितीयार्थो वृत्तित्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org