________________
न्यायकोशः। इति प्राहुः । अत्र विभागावच्छिन्नक्षरणानुकूलव्यापारो दुहेरर्थः । तत्र विभागे गोपदोत्तरद्वितीयार्थवृत्तित्वस्य क्षरणे च पयःपदोत्तरद्वितीयार्थवृत्तित्वस्यान्वयो बोध्यः (ग० व्यु० का० २ पृ० ४४)। अत्रेदं बोध्यम् । गामित्यत्र अकथितं च (पा० सू० १।४।५१ ) इत्यनेन कर्मसंज्ञा । पय इत्यत्र तु कर्तुरीप्सिततमं कर्म (पा० सू० १।४।४९) इत्यनेन कर्मसंज्ञा । तथा च कर्मणि द्वितीया (२।३।२ ) इत्यनेनोभयत्र द्वितीया इति । अधिकं तु दोहनशब्दव्याख्यानावसरे संपादितम् इति तत्र दृष्टव्यम् । अत्र आश्रयो द्वितीयार्थः इति शाब्दिका आहुः (वै० सा० )। कचित्कर्मत्वं विषयरूपत्वम् । यथा भाविनं घटं जानाति ( न्या० म० ४ पृ० ६ ) पौरवं गां याचते इत्यादौ द्वितीयार्थः । अत्र विद्यमानघटस्थले ज्ञानेन ज्ञाततोत्पादनमङ्गीकृत्य क्रियाजन्यफलशालित्वरूपकर्मत्वमपि कदाचित्संभवति इत्यतः भाविनम् इत्युक्तम् । तत्र पूर्व घटस्याभावेन ज्ञातताया जननासंभवात् इति भावः । एवं च कर्तुरीप्सिततमं कर्म इत्यनेन सूत्रेण लक्षणया विषयत्वात्मकं गौणमेव कर्मत्वं बोध्यते इति ( त० प्र० ख० ४ पृ० ७६)। पौरवमित्यत्रापि पूर्वोक्तमेव गौणं कर्मत्वम् । पौरवस्य गां दोग्धि इत्यत्रेव कर्मत्वं बोध्यम् । तञ्च विषयत्वरूपं कर्मत्वं कचिद्विधेयत्वम् विधेयित्वं वा । यथा पर्वते वह्निमनुमिनोमीत्यादौ द्वितीयार्थः । अत्रेदं बोध्यम् । ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयायाः प्राचीनमते विषयत्वमर्थः । तस्य च निरूपकतासंबन्धेन धात्वर्थेन्वयः । विषयत्वे प्रकृत्यर्थस्याधेयतासंबन्धेनान्क्यः इति । नव्यास्तु वृत्त्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकतया घटं जानाति पदं न इत्यादी प्राचीनमते शाब्दबोधस्य अनुपपत्तेस्तत्र द्वितीयाया विषयित्वमेव शक्यार्थमुपवर्णयन्ति । तन्मते तत्र विषयित्वे प्रकृत्यर्थस्य निरूपितत्वसंबन्धेन विषयित्वस्य च धात्वर्थ आश्रयतासंबन्धेनान्वयः इति । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयत्वमेव । विषयित्वादो च द्वितीयाया लक्षणैव न तु शक्तिः इति सांप्रदायिका आहुः (ग० व्यु० का० २ ख० २ पृ० ५१ )। कचित्तु ४८ न्या० को. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org