________________
३७३
न्यायकोशः। इत्याहुः ( ल० म० वृत्तिवि० पृ० ३० )। अत्रायं विशेषः । समुचयान्वाचययोः सामर्थ्याभावान्न तत्र द्वन्द्वसमासः । यत्र युगपत्क्रियान्वयतात्पर्यम् तत्र समासः । समुच्चये च क्रमेण क्रियान्वयः न तु युगपत् इति ( त० प्र० ख० ४ पृ० ५२ )। [ख] परस्परानन्वितसमस्यमाननिखिलपदार्थबोधकसमासः । यथा धवखदिरावित्यादौ । अव्ययीभावादावतिव्याप्तिवारणाय परस्परान्वितेति पदार्थविशेषणम् । अव्ययीभावादी यथायथं भेदेनाभेदेन वा परस्परान्वितपदार्थबोधकत्वसत्त्वान्नातिव्याप्तिः । पाणिपादमित्यादिसमाहारद्वन्द्वे तु पाणिपादमात्रं प्रतीयते साहित्यमपि ( समाहारः ) न प्रतीयते इति तत्र नाव्याप्तिः । एकवचनं तु द्वन्द्वश्व प्राणितूर्यसेनाङ्गानाम् (पा० सू० २।४।२ ) इति सूत्रेण विहितं न विरुद्धम् । धवखदिरावित्यत्र च परस्परानन्वितसमस्यमानपदार्थधवखदिरादिबोधकसत्त्वासमन्वयः (म० प्र० ४ पृ० ४४ )।
[ग] सर्वपदार्थप्रधानः समासः ( न्या० वा० १ पृ० ११ )। द्वन्द्वम्-रहस्यादयः पञ्च द्वन्द्वशब्दार्थाः पाणिनिनोक्ताः । तथाच सूत्रम् द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु (पा० सू०८।१।१५) इति । तत्र रहस्यं द्वन्द्वशब्दवाच्यम् । इतरे प्रयोगोपाधयः। तथाहि १ रहस्यम् । यथा द्वन्द्वं मत्रयते इत्यादौ । २ मर्यादा स्थित्यनतिक्रमः । यथा आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति पौत्रेण प्रपौत्रेणापि इति मर्यादार्थः । ३ व्युत्क्रमणम् पृथगवस्थानम् । यथा द्वन्द्वं व्युत्क्रान्ताः इति । द्विवर्गसंबन्धेन पृथगवस्थिता इत्यर्थः ( वाच०)। ४ यज्ञपात्रप्रयोगः । यथा द्वन्द्व न्यश्चि यज्ञपात्राणि प्रयुनक्ति इति । ५ अभिव्यक्तिः ।यथा द्वन्द्वं संकर्षणवासुदेवौ इति ( शब्देन्दुशे० )। अभिव्यक्तौ साहचर्येणेत्यर्थः ( वाच०)। ६ काव्यज्ञाश्च युगलम् । यथा द्वन्द्वानि भावं क्रियया विवठः (कुमार० ३।३५ ) इत्यादी इत्याहुः । ७ परस्परविरुद्धस्वभावः शीतोष्णादिः । यथा द्वन्द्वातीतो विमत्सरः ( गीता० ४।२२ ) निर्द्वन्द्वो हि महाबाहो ( गीता० ४।३ ) न द्वन्द्वदुःखमिह किंचिदकिंचनोपि (माघः ) इत्यादौ इति योगिनो वेदान्तिन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org