________________
३७०
न्यायकोशः। दीनामपि जातित्वमूह्यम् । द्रव्यं नवविधम् पृथिवी आपः तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति द्रव्याणि ( वै० १।१।५ ) ( प्रशस्त० पृ० १) (त० भा० अर्थ० पृ० २७ ) ( त० सं० ) ( भा० प० श्लो० ३) । आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालः दिक् इति (प्रशस्त० पृ० ७ )। तत्र दिक्कालौ परमात्मनो नातिरिच्यते इति दीधितिकृद्वक्ति (दि. १) (प० मा० )। आकाश ईश्वरान्नातिरिच्यते इत्येकदेशिन आहुः (प० मा० )। अत्र भाष्यम् । आकाशं गुणवत्त्वात् आनाश्रितत्वाञ्च द्रव्यम् । शब्दो गुणो भूत्वा आकाशस्याधिगमे लिङ्गम् । समानासमानजातीयकारणासंभवान्नित्यम् । सर्वप्राणिनां च शब्दोपलब्धिनिमित्तं श्रोत्रभावेन (प्रशस्त० पृ० ७)। द्रव्यम् प्रकारान्तरेण द्विविधम् बहिर्द्रव्यम् अन्तर्द्रव्यं च । बहिर्द्रव्याणि पृथिवी आपः तेजः वायुश्च । तदन्यान्यन्तद्रव्याणि इति । तत्रापि पृथिव्यप्तेजांसि द्वीन्द्रियग्राह्याणि ( न्या० वा० १।१।१३ पृ० ७६ )। अत्रेदं बोध्यम् । वायोरनुमेयत्ववादिनां प्राचां मते बहिर्द्रव्यप्रत्यक्षं प्रति उद्भूतरूपवत्त्वे सति महत्त्वं कारणम् । तेन प्रत्यक्षसामग्र्यभावान्न वायोस्त्वाचप्रत्यक्षम् । वायोः प्रत्यक्षत्ववादिनां नव्यानां मते तु उद्भूतस्पर्शवत्त्वे सति महत्त्वमपि कारणम् इति (न्या० सि० दी० पृ० ३२) (मु० १ पृ०)। तेन प्रत्यक्षसामग्रीसंपत्त्या वायोस्त्वाचप्रत्यक्षं भवति इति भावः। द्रव्यं नित्यानित्यभेदेनापि द्विविधम् । तत्र नवसु द्रव्येषु मध्ये पृथिव्यादिचतुष्टयस्य परमाणवः आकाशम् कालः दिक् आत्मा ( जीवः परमात्मा च ) मनश्च एतानि नित्यद्रव्याणि । पृथिव्यादिचतुष्टयस्य ब्यणुकमारभ्य महत्पर्यन्तं सर्वाण्यनित्यद्रव्याणि भवन्ति (मु० १ )। तत्र अनित्यद्रव्यं कार्यरूपत्वादवयवसमवेतम् । नित्यद्रव्यं त्वसमवेतमेव । २ शाब्दिकास्तु वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोर्थो भेद्यत्वेन व्यवस्थितः ॥ (भर्तृहरिः) इति वदन्ति । ३ भिषजस्तु रसो गुणस्तथा वीर्य विपाकः शक्तिरेव च । पञ्चानां यः समाहारस्तव्यमिति कीर्त्यते॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org