________________
न्यायकोशः ।
। ।
1
1
नाशनाश्यत्वेन घृतादिवत्पुनः पिण्डीभावापत्तेश्च इति ( प० मा० ) । तैलक्षीरादावपि जलस्यैव द्रवत्वम् । स्नेहप्रकर्षेण च दहनानुकूल्यम् इति बोध्यम् (मु० १ १० ७७ ) | अत्रेदमाकूतम् । हिमकरकयोरोपाधिकद्रवत्वनिरोधात् सूर्य किरणभूमिसंयोगादिनोपाधिनिवृत्तिमात्रम् न तु द्रवत्वोत्पत्तिः इति ( वाक्य ० १ पृ० ९ ) । तथा च अदृष्टविशेषेण द्रवत्वप्रतिरोधः । करकायां काठिन्यप्रत्ययो भ्रान्तिरेव ( मु० १ जल० पृ० ७७ ) । दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परस्परसंयोगो द्रव्यारम्भकः संघाताख्यः । तेन परमाणुद्रवत्वप्रतिबन्धात् कार्ये हिमकरका द्रवत्वानुत्पत्तिः इति ( प्रशस्त० पृ० ३४ ) । नैमित्तिकं च अस्यादिसंयोगजन्यमित्यर्थः ( वाक्य ० १ ० ९ ) । तत्र सांसिद्धिकं जल एव । नैमित्तिकं पृथिवीतेजसोरेव वर्तते ( प्रशस्त ० पृ० ३३ ) ( त० सं० ) ( भा० प० श्लो० १५५ - १५८ ) । सांसिद्धिकद्रवत्वत्वं जातिविशेष: प्रत्यक्षसिद्ध: ( मु० १ जल० पृ० ७६ ) । घृतलाक्षादि - पृथिवीषु सुवर्णादितेजस्सु चाग्निसंयोगजन्यं द्रवत्वं वर्तते इति ज्ञेयम् ( मु० १ पृ० २३२ ) ( त० सं० ) । अयं भावः । सर्पिर्जत्वाकरजेषु परमाणुष्वग्निसंयोगाद्वेगापेक्षात्कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसंयोगविनाशात्कार्यद्रव्यनिवृत्ती अग्निसंयोगादौष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते इति ( प्रशस्त ० पृ० ३४ ) । तथा च द्रवत्वं नित्यानित्यभेदेनापि द्विविधम् । तत्र नित्यद्रव्यगतम् नित्यम् । अनित्यद्रव्यगतमनित्यम् (मु० गु० पृ० २३२ ) ( प्र० प्र० ) ( त० कौ० ) ( ल०म० ) । अत्रायं विवेकः । सांसिद्धिकं द्रवत्वमेव नित्यानित्यभेदेन द्विविधम् । तच्च नित्यगतं नित्यम् । अनित्यगतमनित्यम् । नैमित्तिकद्रवत्वं त्वनित्यमेव इति ( वाक्य ० १ पृ० ९ ) । तस्य पाकजन्यत्वेन विनाशसंभवान्न नित्यत्वमिति भावः । द्रवद्रव्याणि तु दुग्धदध्याज्यतक्रासवजलतैलादीनि दैहिकमूत्रादीनि च विज्ञेयानि । २ काव्यज्ञास्तु गतिः । यथा समुद्रमेवाभिमुखा द्रवन्ति ( गीता अ० ११ श्लो०२८ ) इत्यादौ । यथा वा ततः किरीटी सहसा पाञ्चालान् समरेद्रवत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org